SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ૮ श्रोजिनभद्र सूरिरचिता [ चतुर्थः कुलटा मित्रानेकधैवकलितां सतिलंकालिकां स्निग्धशोभाञ्जनाभिरामां सच्छायकलितरूपशोभां मारवीं त्यजन्ती यामिनीमतिवाहयामास । ततश्च परलोकगतपतिका ऽपि किमियमद्यापि जीवतीति समुल्लासितप्रचण्डदण्डं यमराजमिव भीषण कृतशुण्डादण्डं वनवारणमपश्यत् । मुक्तापूर्णात्मकुम्भोऽप्युडुगणममलं वीक्ष्य मुक्तायमानं लोभादादातुमिच्छन्निव गगनतले हस्तमुल्लास्य धावन् । चक्रे मत्तद्विपेन्द्रः प्रचलितवसुधः केलिशैलोपमानः सद्यः शीलेन तस्या दिशि दिशि तरले चक्षुषी निक्षिपन्त्याः ॥ २५६॥ तदनु पुनस्तो विर्केटपादपातं धावन्त्या मणिरथ इव अनेकपापकारितां दधानः पञ्चाननः सभयतरलतारं निरेक्ष्यत । क्ष्वेडामात्र विसूत्रितद्विपघटा पुच्छच्छटा छोटनाद् 3 4% धूताद्रिर्धूतकेसरोऽ ऽजनि रुषा व्यात्ताननो यः पुरः । १. [ महाटवीं कुलटामिव त्यजन्ती । महाटवी हि अनेकैः धवैः - वृक्षविशेषैः कलिता । वृक्षविशेषरूपाचां तिलकानाम् आलिका श्रेणिः तया सहिताम् । स्निग्धैः शोभाञ्जनैः वृक्षान्तरैरभिरामा सच्छाया ये कलितरवः - बिभीतकवृक्षास्तैरुपशोभा यस्यां सा तथा ताम् । कुलटां तु अनेकैः धवैः भर्तृभिः कलितां सह तिलकेन-टिक्ककेन सतिलकाम्, स्निग्धशोभेन अञ्जनेन अभिरामाम् । सच्छायया कलितरूपस्य शोभया । अग्रेतनं 'पुरुषोत्तमं ' इत्यन्तं सुबोधम् । ] ' अनेकधवकलिताम्, ' ' सतिलकालिकाम् ' - एते द्वे विशेषणे कुलया-अटव्योः । कुलटापक्षे अनेके धवाः तैः कलिता ताम् । अटवीपक्षे अनेके धवा:-' धव 'संज्ञकाः वृक्षाः तैः कलिता ताम् । " पति - शाखि - नराः धवाः " - अमर० कां० २३, नानार्थव० श्लो. २०५.] कु० पक्षे तिलकानाम् आलिका तिलकालिका तय सहितां सतिलकालिकाम्, तिलकानि भालभूषणाय क्रियमाणानि विविधरूपाणि प्रतीतानि । अ० पक्षे तिलकसंज्ञाः वृक्षाः तेषाम् आलिका तिलकालिका तया सहितां सतिलकालिकाम् | २. [नवरम् - मणिरथः अनेकेषां पापानां लघुभ्रातृवधतद्बधू संगाभिलाषरूपाणाम् एनसां कर्ता, सिंहस्तु अनेकपानां - द्विपानाम् अपकारिताम्- अपकारकत्वं दधानः । ] Jain Education International विकरपादपातं यथा स्यात् तथा, अर्थात् विकटपादपतनपूर्वकम् । अनेक पापकारिताम् । मणिरथपक्षे अनेकेषां पापानां कर्तृताम् । पञ्चाननपक्षे अनेकपाः - हस्तिनः तेषाम् अपकारिताम् । ३. धूतः - कम्पितः अद्रिर्येन स धूताद्रिः अर्थाद् यः पर्वतमपि सकम्पं करोति स धूताद्रिः । ४. कम्पितकेसरः । 1 धवलितां डे | 2 लकां खल । 3 पात धुव डे। 4 °द्विर्धुतके' डे । For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy