________________
उच्छ्वासः ] मदनरेखा-आख्यायिका
१०७ शीलस्य च परिपालनाय पलायनमेव कालोचितमिति संप्रधार्य तत्रैव निशीथे तस्मिन्नेव प्रमदवने विहाय शोकशङ्कुसमाकुलमेव विश्रुताश्वसेनात्मजं चन्द्रयशसम् , दलितसकलशोकशङ्कु पुनविश्रुताश्वसेनात्मजं पार्श्वनाथं हृदि निधाय, पश्चात्कृत्य सकलभवनराजीविराजितां परमाश्वासनावसतिं पुरः समृद्धिम् , महाटवीं पुनः सैकलभवनराजीविराजितां परमुल्लासवतीं पुरस्कृत्य पदे पदे परमात्मानं महापन्नगभूषितं वर्गयन्ती निन्दन्ती च परमात्मानं महापन्नगभूषितं स्वस्थानस्थितयोरात्मस्वान्तकल्पयोः पत्यपत्ययोरसन्निहिततया मृतमेवात्मानं गणयन्ती
१. [विश्रुता अश्वानां तुरङ्गमाणां-सेना यस्य युगवाहोरात्मनश्च सकाशाज्जातः, विश्रुताश्वसेनात्मजः, तं चन्द्रयशसं पुत्रं विहाय-त्यक्त्वा । विश्रुतः-प्रसिद्धः अश्वसेनो नाम राजा तस्यात्मजं-पुत्रं पार्श्वनाथं हृदये विधाय-निवेश्य ।]
विश्रुता-प्रतीता अश्वसेना यस्य स विश्रुताश्वसेनः-युगबाहुः, तस्य आत्म-विश्रुताश्वसेनात्मजं चन्द्रयशसम् । दलितसकलशङ्कम् इति पार्श्वनाथस्य विशेषणम् । अत्र खप्रतिगतस्य तदलितसकलशोकशङ्कम्' इति पाठस्य अयमर्थ:-तस्याः अलितः-वारितः सकलः शोकशङ्कः येन स तदलितसकलशोकशङ्कः, तम् , 'अली भूषण-पर्याप्ति-वारणेषु' धातुः इत्यस्य भूतकृदन्तम्अलितन्-वारितम् । विश्रुतः-प्रसिद्धः, अश्वसेनपुत्रः पार्श्वनाथो जिनः तं हृदि निधाय ।
२. [ सकलानां भवनानां-गृहाणां राज्यश्रेण्या विराजितां परमा-प्रकृष्टा या आश्वासनासंबोधना तस्याः वसतिमीदृशीं पुरःसमृद्धि पश्चात्कृत्य । सकलभा-लघु-वनगजसहिता या वनराजीवृक्षसमूहः-श्रेणिस्तया विराजितां परमाश्वासनावसति-प्रकृष्टवयाधारामीदृशीं महाटवीं पुरस्कृत्य ।।
___ परमायाः-उत्कृष्टायाः अश्वसेनायाः वसति-निवासं-स्थानरूपां, पुरः-नगरस्य समृद्धिं पश्चात्कृत्य । कलभैः सहित-सकलभम् , कलभाः--करिपोताः-हस्तिबालाः, तेषां वनं सकलभवनं तस्य राजी तया विराजिताम् । तथा परमा उत्कृष्टा आश्वासना आश्वासनम् तस्या वसतिम् अर्थात् प्रकृष्टे वयसि आधाररूपां ताम् अटवीम् ।
३. महामनगभूषित-धरणेन्द्रसर्पशोभितं परमात्मानं पार्श्वजिनं वर्णयन्ती महती या आपद् वैधव्यरूपा । सैव नगभूः-पर्वतभूमिः, तत्रात्मानमुषितम् महापदि-महापायायाम् , नगभुवि-पर्वतभूमौ उपितं वा स्थितं परम्-अत्यथे निन्दन्ती, स्वस्थाने-स्वर्गस्थाने स्थितः पतिः। स्वस्थाने स्वनगरे स्थितमपत्य-चन्द्रयशाः ।]
___महापन्नगभूषितं-पार्श्वनाथम् , पार्श्वनाथो हि महापन्नगेन भूषितः इति प्रसिद्धिः । वर्णयन्तीप्रशंसन्ती-ध्यायन्ती । निन्दन्ती च परमात्मानम्-परम् आत्मानं स्वात्मानं च निन्दन्ती, 'महापन्नगभूषितम्' अस्य द्विधा पदविभागः-(१) महा + आपद् + नग+ भू + उषितम् । (२) महापन्नग + भूषितम् । महती आपद् यैस्ते महापदः, महापदश्च नगाश्च-पर्वताच, महापन्नगाः तेषां भूः महापन्नगभूः-महापन्नगभूवि उषित-कृतनिवासं महापन्नगभूषितम् आत्मानम् अथवा महापन्नगभूषितं -महापन्नगेन अटवीस्थितेन, महापन्नगेन-अजगरेण भूषितम् आत्मानम् ।
४. पतिश्च अपत्यं च पत्यपत्ये तयोः पत्यपत्ययोः ।
1
सम् तदलित
ख। 2 हृदये नि
डे। 3 °तिं सुरस
डे। 4 परमवासन
डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org