________________
१०६
श्रीजिनभद्रसूरिरचिता
हित्वा सर्वं नमस्कारपरो भव विचक्षण ! | करमचिन्तारत्नस्य कैपदैः किं प्रयोजनम् ॥ २५२॥ यदि हृदयालवालमाक्रामति शुद्धबुद्धे रह परमेष्ठिपञ्चनमस्कृतिकल्पलता कियदिव । तस्य शक्रचक्राधिपसौख्यमहो !
करकमलस्थमेव यस्मात् खलु मुक्तिसुखम् ॥ २५३॥ इत्थं प्रोत्साद्यमानस्य नमस्कारस्थचेतसः । आयुषः स्पर्द्धयेवादौ क्षीणस्तस्य मनोभ्रमः ॥२५४॥ उभयभवसहायौ न्याय-धर्मावपीमौ
जहति किल यदर्थे प्रायशः प्राणिनस्तैः ।
देशभिरसुभिरेषोऽष्टादशाद्यैश्च मुक्तोऽ
गमदथ परलोकं त्यक्तनिः शेषशोकः ॥२५५॥
Jain Education International
तदनन्तरमेव च पौरपरीवारस्वजनैः सह चन्द्रयशसि ' हा तात तात, हा नाथ ! हा ! नाथ ! ' इति युगपदाक्रन्दितुं प्रवृत्ते तदाक्रन्दप्रतिरवे च रोदसीं पूरयितुमिव प्रसरति सति मदनरेखा प्रबलमपि नूतनमपि दुःसहमपि प्रियतममरणसमुत्थं शोकसन्तापं सुनिश्चित समाधिप्रधानावसानाssराधनाऽविनाभूतप्राणनाथसद्गतिलाभसम्पादितानंन्दननन्दनेन पतिव्रताव्रतरक्षणवैचक्षण्यलक्षणक्षणदापतिव्यतिकरकान्तविवेकचन्द्रकान्तनितान्तधीरिमसुधास्यन्दनेन च तत्कालं निरस्य पर्यस्यति स्म । तथाहि धिगिदं मम रूपलावण्याद्यनर्थसार्थकुलगृहं देहं यदनैव युगान्तसमयेनेव पापीयसा त्याजयित्वा मर्यादां नृपसमुद्रेण संहारयांच स्वबान्धवभुवनम् । तदस्यैवात्मघातपातकमपि कृत्वा निग्रहः समुचितः प्रतिभाति, परमनेन गर्भस्थेनापत्येन समासन्नचरणपरिणामेन रक्षितमिदम्, तथापि पतिसुखरहितस्य किमस्याद्यापि पुत्रराज्यसुखेन ? । तिष्ठति चात्रामुत्र पुत्रस्यापि पत्युरिव कुशलं नास्ति तस्मात् पुत्रस्य च
[ चतुर्थः
१. भाषायां 'कोडा - रमवानी कोडियो नानी अने कोडा मोटा ।
२. आलवाल:- केदार:-भाषायां 'क्यारो' ।
३. दशभिः असुभिः प्राणै:- " पञ्चेन्द्रियाणि त्रिविधं बलं चोच्छ्वास- निःश्वासमथान्यदायुः । प्राणा दर्शते भगवद्भिरुक्ताः । " अर्थाद् इन्द्रियाणि पञ्च मनोवलम् वाग्बलम्, शरीरबलं च. उच्छवास - निःश्वासौ, तथा आयुः इति दश असवः - प्राणाः ।
४.
पूर्वोक्तैः प्राणातिपातादिरूपैः अष्टादशभिः पापस्थानकैश्च । ५. तिष्ठति सप्तम्यन्तमेतत्-अस्मिन् देहे अत्र तिष्ठति सति ।
1 शुद्धमतेरिह खल | 2 'नन्द चन्द डे |
For Private & Personal Use Only
www.jainelibrary.org