________________
उच्छवासः] मदनरेखा-आख्यायिका
वनितैवावनिपृष्ठे प्रेष्ठतमा भृशमनर्थसार्थस्य ।
तेनैव जिनेन्द्ररिह दूरं दूरेण संत्यक्ता ॥२४५॥ किञ्च,
ज्ञानाद्यभिन्नमेकं भिन्नं देहस्वबन्धु-वस्तुभ्यः ।
आत्मानमेव चिन्तय भजस्व तच्चिन्तया महानन्दम् ॥२४६॥ अपरं च, आत्मानमिव समस्तशास्त्रस्य सारम् प्रदत्तनिःशेषभव्यप्राणिगणसंसारपारम् पञ्चपरमेष्ठिनमस्कारं निरुद्धत्रिकरणव्यापारः प्रणिधेहि
ये याता यान्ति यास्यन्ति पारं दुःखमहोदधेः । विश्वसारं नमस्कारं स्मारं स्मारं क्षमेश ! ते ॥२४७॥ नमस्कारः पिता माता नमस्कारः सखा गुरुः । नमस्कारः श्रियो विद्या नमस्कारः कुलं बलम् ॥२४८॥ दान-शील-तपो-भावैः किमेभिः प्रथितरपि । पैञ्चपूज्यां प्रजापश्चेन्निश्चल.श्चेतसि स्थितः ॥२४९।। यत्रैकोऽपि नमस्कारः किं तत्रान्यैः क्रियान्तरैः । यत्राऽऽलोको दिनेशस्य तत्राऽऽलोकान्तरैरलम् ॥२५०॥ नमस्कारं विना मन्त्रो न भूतो न भविष्यति ।
मोक्षोपायोऽपि विश्वऽपि न देवोऽपि विना जिनम् ॥२५१॥ 'प्रथमानबन्धननिबन्धनम्' इत्यस्य अनेकधा पदविभाग:-(१) प्रथमान + बन्धन + निबम्धनम् । (२) प्रथमा + नवम् + धननिबन्धनम् । प्रथमानबन्धन-विस्तारप्राप्तबन्धन । तव अङ्गनाशन -देहविनाशनम् इव ।
'बहुविधानुरागस्य आदिकारणम्' इत्यत्र 'बहुविधानुरागस्यादिकारणम्' इत्यस्यापि अनेकधा पद विभाग:-(१) बहुविधस्य अनुरागस्य आदिकारणम् । (२) बहुविधाः नुः आगसि आदिकारणम् । अत्र 'बहुविधाः' इति अङ्गनाया विशेषणम् ।
__ अङ्गनाशनप्रमुख, इत्यादिपदस्यापि बहुविधः पदविभाग:- (१) अङ्ग + नाशन । (२) अङ्गना+ अशन ।
१. प्रष्ठ:-अग्रगः-अग्रेसरः । २. स्मारं स्मारं-स्मृत्वा स्मृत्वा । ३. पञ्चानां पूजानां समाहारः पञ्चपूजी तस्यां पञ्चपरमेष्ठिपूजायाम् ।
४. प्रजापालकः राजा अथवा प्रकर्षण जापः यस्य स प्रजापः-निरन्तरं समुत्कृष्टतया जापविधाता।
५. जगति अपि । अत्रान्वय एवम्-विश्वेऽपि जिनं विना न देवोऽपि मोक्षोपायः । 'मोक्षोपाय 'पदेन संलग्नः 'अपि'शब्दः न कोऽपि विशेषार्थसूचकः ।
1 समस्तसारं शास्त्रस्य ख, समस्तशास्त्रसारं ल । १४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org