________________
१०४
श्रीजिनभद्रसूरिरचिता
ये ज्ञानात् केवलिनोऽरिहतौ बलिनः शिवाम्बुजेष्वलिनः । प्रज्ञप्तस्तैर्धर्मः शरणं तव भवतु शुद्धमते ! ॥२४२॥ शरणं गतश्चतुर्णामेषां यः स खलु भवति मुक्तात्मा । मध्येमुक्ताहारं सिद्धिवधूस्तनतटे लीनम् ॥२४३॥
व्युत्सृज राज्यं प्रतिबन्धकारणं पुत्रमिममिमं देहम् |
मां पुनरेतां स्वामिन्! विशेषतो व्यसनशतमूलम् ॥२४४॥
यतः सर्वाण्यङ्गना करवाललतेवानेकधारा गवि रागसंपादिका रणं प्रति कारणं च, पेणरमणीनामिव पुरुषाणामङ्गना प्रथमानबन्धननिबन्धनम्, बहुविधानुरागस्य आदिकारणं सामान्यस्यापि तवेव अङ्गनाशनप्रमुखनिमित्तम् । यतः -
[ चतुर्थः
१. ये ज्ञानाद् ज्ञानेन कृत्वा केवलिनः - अछद्मस्थज्ञानिनः । अकारस्य लुप्तत्वाद् अरिहतौ रागादिवैरिध्वंसे बलिनः - समर्थाः । शिवाम्बुजे तु मोक्षरूपे कमले अलिनः - भ्रमराः, तत्रावस्थितत्वात् तेषाम् । प्रज्ञप्तस्तैर्धर्मः ।]
अरहतो - अरिणां हतिः अरिहतः, तत्र रागादिकशत्रुघाते । अलिन:- अलयः, भ्रमराः । २. [ शरणमित्यादौ - मुक्ताहारस्य मध्ये मुक्तात्मा - मौक्तिकस्वरूपः । अथ च मुक्त आहारो यैस्ते मुक्ताहारा अर्थात् सिद्धाः तेषां मध्ये मुक्तात्मा - मुक्तिगतजीवः ।]
मुक्तश्रासौ आत्मा च । हारपक्षे मौक्तिक्रूपः । मध्येमुक्ताहारं - मौक्तिकहाररूपाणां मुक्तात्मनां मध्ये यथा स्यात् तथा । तथा मध्येमुक्ताहारं कीदृशम् ? तदुत्तरम् - सिद्धिवधूस्तनतटे लीनम् हारो हि वध्वाः स्तनतटे लीनो भवत्येव इत्येवं क्रियाविशेषणस्यापि एतद् विशेषणं ग्राह्यम् ।
३. [ अग्रे अङ्गना अनेकानेकप्रकारं राग-विरागयोः अभिष्वङ्ग-द्वेषयोः संपादिकरणं प्रति संपत्तिहेतुं मोहं प्रति कारणं-निमित्तम्, स्त्रीसंबन्धात् मोहस्योत्पत्तेः । करवाललता पुनर्न एका धारा यस्याः सा, अनेकधारा-धाराद्वयत्वात् तस्याः । गवि - पृथिव्यां विषये, रागस्याभिलाषसंपादिका खड्गहस्तस्य भूपतित्वाभिलाषाद् रणं- संग्रामं प्रति कारणं च । ]
अनेकधारा करवाललता इव सर्वा अपि अङ्गनाः गवि पृथिव्यां रागसंपादिकाः, रगं - युद्धं प्रति कारणं च । अथवा ' अनेकधा राग-विरागसंपादिका' इत्येवं पटने करवाललता इव अङ्गना अनेकधा - अनेकप्रकारेण रागस्य विरागस्य च संपादिका ।
४. [ पुरुषाणाम् अङ्गना - स्त्रीः, प्रथमानं च तद् बन्धनं च प्रथनानंवन्धनं तस्य निबन्धनं-कारणं गुरुतरं वन्धहेतुः । बहुविधा: - क्वचित् तुष्टाः कचिद् रुष्टा इत्यादिबहुप्रकाराः । नुः - पुरुषस्य, आगसि - अपराधे, आदिकारणं - मुख्यनिमित्तम् । पणरमणीनां - वेश्यानां पुनरङ्गना - स्त्रीः प्रथमा तरुणी सती, नव-नूतनं, धननिबन्धनं - द्रव्यार्जन हेतुः । बहुविधस्य वेश्याजनप्रतीतस्य अनुरागस्यादिकारणम् । सामान्यस्यापि - इतरस्यापि अङ्गना - स्त्रीः । अशनप्रमुखस्य - अन्न निष्पत्त्यादेनिमित्तं तव पुनः, हे युगबाहो ! सामान्यस्यापि अङ्गनाशनप्रमुखस्य शरीरविनाशादेर्निमित्तम् । अग्रेतनं ' शोकशङ्कुसमाकुलम्' इत्यन्तं सुबोधम् । ]
1 तटेऽवश्यम् खल 1 2 मिदं देहम् ल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org