________________
उ हुवासः ]
मदन रेखा आय्यारिका
१०३
परपरीवादात्, निःशेषतो मायामृषावादात्, सर्वदोषमूलान्मिथ्यादर्शनशल्यात् त्रिविधत्रिविधेन विरतिं प्रतिपद्य वीरशिरोमणे ! समाहितो भव । समस्तभवभ्रमनिवारकं शिवसमृद्धिकारकं विशेषेण पुनरिदं सहृदयहृदयभूषणं विधेहि चतुश्शरणम् । तद्यथा
वारितरागगजेन्द्रा विस्तारितरङ्गवृद्धिमादधतः ।
अमृतमयास्तव शरणं सन्तु समुद्रा ईवाहन्तः ॥२३९॥ देलिताखिलद्विषो ध्वस्तविग्रहा निर्वृति परां प्राप्ताः । जगदुपरिवर्तिनः सिद्धचक्रिणः सन्तु तव शरणम् ॥ २४० ॥ नीरज - योग यः प्रतिपन्नः परमहंसतां तनुते । चरणस्थ - मुख्यरागः साधुस्तव सांप्रतं शरणम् ॥ २४९ ॥
१. [ वारितेत्याद्यार्या - समुद्रे वारितराः - जलचारिणः, अगाः पर्वताः, गजेन्द्राश्च सन्ति । तथा विस्तारिणो ये तरङ्गाः- कल्लोलाः, तेषां वृद्धि म्-अधिकत्वम, आदधतः - धारयन्तः, अमृतमयाःपीयूषमयाः, जलमयाः वा । जिनेन्द्रास्तु वाप्तिः निषिद्धः राजगजेन्द्रो यस्ते तथा । विस्तारितरं यथा भवति, गवां-वाणीनाम ऋद्धिं समृद्धिम आदधतः । अमृतमयाः - मोक्षसौख्यमयाः । ]
वारितर + अंग + गजेन्द्राः ' इत्येवं समुद्रपक्षे पदविभागः । 'विस्तारितर + गो + ऋद्धिम् ' इत्येवं जिनेन्द्रपक्षे पदविभागः । अर्थस्तु पूर्वष्पिणीकारेण दर्शित एव ।
२. [ ढलितेत्यादौ - दलिता अखिला द्विषः वैरिणः, एकत्र बाह्याः, अन्यत्र आन्तरा यै तथा । ध्वस्तो विग्रह: - विरोधः, अन्यत्र विग्रहं शरीरम् । निर्वृतिं एवं मोक्षं च । जगदुपरि वर्तमानः सर्वमण्डलीक पूज्यत्वाद अन्यत्र मोक्षं प्राप्तत्वाद् इति सिद्धानां चक्रिणा सह श्लेषः ।] ध्वस्तविग्रहाः- ध्वस्तशरीराः ध्वस्तकलहा वा ।
३. [नीरजेत्यादि - नीरजसं - निष्पापं योगं मोक्षोपायं प्रतिपन्नः - अङ्गीकृतवान् साधुः । परमहंसतां - परमात्मत्वं तनुते विस्तारयति । चरणस्थः- चारित्रावस्थितः, मुख्यः - प्रधानः, रागः- आसक्तिरूपः यस्य स तथा । अथ च परमहंसः - राजहंसः स च नीरजस्य- पद्मस्य संयोग प्रतिपन्नः । चरणस्थो मुखे भवो मुख्यश्व रागः शोणितत्वं यस्य स तथा । ]
नीरजसं योगं - रजोगुणरहितं योगं प्रवृत्तिरूपं काय वाक्- चित्तव्यापारं प्रतिपन्नः, अथवा नीरजवत् - कमलवत् निर्लेपतायुक्तं संयोगं प्रतिपन्नः ।
नीरजसं योगम् अथवा नीरजं संयोगम् इति विभागः । हंसस्य चरणौ रक्तौ भवतः तथा मुखम् अपि रक्तं भवति, अत एव अत्र ' चरणस्थ 'शब्देन हंसपक्षे चरणगतो रागो बोध्यः मुख्य 'शब्देन ' मुखे भवः मुख्यः' इति कृत्वा मुखगतो रागो वोध्यः । रागो नाम लोहितवर्णरूपो रङ्गः । साधुपक्षे चरणे - चारित्रे स्थितो यः मुख्यः प्रधानः रागः अभिष्वङ्गलक्षणः स्नेहो बोध्यः ।
6
तथा
1 शेषान्मा डे । 2 धीरशि° खल । 3 'वार' डे । 4 इव जिनेन्द्रः डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org