________________
१०२ श्रीजिनभद्रसूरिरचिता
[ चतुर्थः तावदेताः संपादितचित्तरतयो युवतयः, तावदेते सुहृत्स्वजना अप्यपूर्विकया सततममन्दमानन्दमुत्पादयन्ति । तदपगमे तु ततोऽन्यतो वाऽपि, स्वदेह तो वाऽपि, दुःखमेव केवलमापद्यमानमीक्ष्यते। ततः कथमहमन्यस्मै कुप्यामीति निवृत्तस्तापः, अत एव मणिरथेऽपि सद्यो हन्तरि पितरीव मातरीव पातरीव दातरीव हितविधातरीव निजाभिमतवक्तरीव समुदपद्यत प्रागिवानवद्य एव स्वामिबन्धुभावः । तृतीय पुनरेतदेव यदुचितविषयव्यासङ्गप्रभव एव निःशेषोऽपि दुःखविस्तारः संसारः । तदुपशमनक्षमत समशत्रु-मित्रभावस्य मम सौमनस्यमेकमेव तदतदेव मम जगतोऽपि प्रियता कर्तुमुचितमिति । ततः प्रिये ! प्रियमिदं विदधानया न केवलम्-कलत्रता सकलत्राऽपि स्वस्य संपादितेव त्वया । किं बहुना ? समाकर्णय सकर्णे ! त्वम्--
किमुपकृतिरिय तेऽधत्त सर्वाधिपत्यं
किमनघकरुणा वा किं विशुद्धा मतिर्वा । नहि पतति यदा सा कुर्वती स्वस्वकृत्यं
क्वचिदपि किल पश्चात् क्वापि पङ्क्तिस्थितेव ॥२३८॥ वत्स चन्द्रयशः ! त्वयोत्साहितैर्वराकैः सूत्रिता विचित्रा मन्त्राः, निबद्धानि कण्डकानि, लिखिता रक्षा, विहितानि भूतिकर्माणि, नियोजिता विद्याः, समाकृष्टा देवताः, कृतानि तन्त्राणि परं न कोऽपि ततोऽप्युपकारविशेषस्तदलमेभिश्चिकित्सकाद्यैः, कृतं शोकेन, पर्याप्त विषादेन, यदि मम वत्सोऽसि तदुत्साहय जननीमेव, येनेयं पूर्वोदितमधिकं वा स्मारयति कारयति वा यतो नाहमतः परं वक्तुं शक्ष्यामि ।।
ततोऽभिहितं मदनरेखया, किं प्राणेश्वर ! तव शासनादपि वत्सप्रोत्साहना मम गरीयसीत्युक्त्वा ततः कर्णाभ्यर्णस्थिता वीणावेणुमनोहरेण ध्वनिना वक्तुमारभत–जीवितेश्वर ! वीतराग मनसिकृत्य सोपयोगमनाः सर्वस्मात् प्राणातिपातात् , सर्वस्मान्मृषावादात् , समस्ताददत्तादानात् , अखिलादब्रह्मसेवनात् , अशेषात् परिग्रहात् , समस्तान्निशाऽशनात् , अन्यूनात क्रोधाद्, अखण्डान्मानात् , विश्वस्माद् दम्भात् , सकलाल्लोभात् , प्रत्यक्षाद् रागात् , निखिलाद् द्वेषात् , कृत्स्नात् कलहात् , संपूर्णादभ्याख्यानात , निरवशेषात् पैशुन्यात् , अक्षुणात्
१. रक्षितरि-पालके ।
२. [ केवलं कलत्रता भार्यात्वम् , सकलत्रा-सर्वरक्षकत्वम् । अग्रेतनं 'तद्यथा' (पृ० १०३ पं० ३) इत्यन्तं सुगमम् ।]
1 °दितरतयो डे। 2 हतोऽपि डे। 3 रथे सद्यो खल। 4 समस्तान्मृषा ल । 5 समग्राद ल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org