________________
उच्छ्वासः ] मदनरेखा-आख्यायिका
विधाय भवभीरुतां हृदि निधाय तां निर्वति
प्रपद्य गुरुशासन कुमतनं विमुच्य भ्रमम् । विरम्य विकैथापदात् सकलतः पराऽवर्णतो
भजस्व समतां परां किमपराऽपराडम्बरः ? ॥२३५॥ युगबाहुरपि तैरमीभिरुपदेशरत्नरपास्तसमस्तकषायविषयदोषान्धकारः प्रतिभासमानप्रधानात्मस्वरूपलेशः प्रमोदमेदुरमानसः स्मेरवदनतामरसः स्वभालतलघटितकरसंपुटः पर्यन्तावस्थानुरूपेण मन्दमन्दस्वरेण निजगाद ।
किमघटि घनसारर्वेधसा गीस्त्वदीया - किममृतकरखण्डैः सुभ्र ! किं वा सुधाभिः । मम मनसि यदेषाऽऽमोदलक्ष्मी विधत्ते
व्यपनयति च तापं सौमनस्यं च दत्ते ॥२३६॥ यतः--
साधुनाऽमुना तबोपदेशेन व्यपगतो मे प्रजा-पुत्र-कलत्र-मित्रादिजनितातिविषाददुर्गन्धसम्बन्धः । यदहमिदानीमिदं तावदेकं चिन्तयामि । इय नशेषशेषसमुज्ज्वलशीलादिगुणगणाधारस्वान्ता पार्श्वस्था हृदयस्था च सदैषाऽऽसीना कान्ता । स्वयं च परमानन्दाधारः सकलविनयादिगुणग्रामालङ्कारः संनिहित एव हार इव कुमारः । तथाऽयमपि शरीरत्यागेनापि प्रस्तुतप्रभुप्रयोजनसिद्धिसर्गः सकलोऽपि मुखनिरीक्षणपरो भृत्यवर्गः । तथेयमायुर्वेदनैदीष्णमहामतिर्विविधोपचारव्यापारविफलीभावजायमानमानसाऽधृतिः पुरत एव वैद्यसंहतिः । परममीषामेकेनापि प्रतीकारशतकरणोद्यतेनापि न शक्यते दुःखलवोऽपि निवर्तयितुम् । यतः
यदर्जितं स्वयं दुःखं सुखं वा पूर्वकर्मभिः ।
संसारे तदिदं सर्व स्वयमेवानुभूयते ।।२३७॥ तदेषः सकलोऽपि पुत्र-कलत्रादिगोचरः स्नेहो न्यामोह एव न पुनरस्य सकलस्यापि क्लेशरूपस्य कश्चिदपि तत्त्वलेशः तदलं मम स्वकर्मफलभुजः सर्वथाऽप्यनेन कलत्रादिसंबन्धेन। द्वितीय पुनरिदं यावदिह देहिनः सर्वस्य शुभः कर्मविव” वर्तमानस्तावदियममला कमलालया,
१. 'विकथापदात् ' इत्यस्य विशेषणम् 'पराऽवर्णतः' इति । सकलतः सर्वप्रकारात् , विकथापदात् विकथास्थानात् , किंभूतात् विकथापदात् ? पराऽवर्णत:-परः परमरसरूपः अवर्णवादः परनिन्दादिरूपः यस्मिन् तस्माद् विकथापदाद् अथवा परः परकीयः अवर्णः अवर्णवादः यस्मिन् तस्मात् परावर्णतः ।
२. नदीष्णः-कुशलः ।
1 किमपरं परा ल। 2 उरगबाह' डे। 3 तरुचिख डे। 4 क्ष्मी च धत्ते ड। 5 अयं च ख। 6 दुःखलेशोऽपि डे। 7. 'दिह नः स ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org