SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता [ चतुर्थः कषायघटनामथो भजति यद्विरुद्धक्रम प्रदत्तजडिम प्रभो ! त्यज सरागचित्ताम्बरम् ॥२३१।। अपि च, आत्माभ्याससुधां न जातु भजतेऽनित्यादिसद्भावना द्राक्षापाणकमुज्झति क्षिपति तां सिद्धान्तगीःशर्कराम् । सत्संसर्गनिसर्गपेशलपयो यद् द्वेष्ट्ययं चेतन स्तत् सर्व विषयस्पृहामदिरया संपादितं वै-कृतम् ॥२३२॥ किञ्च, मूर्छानन्द' कणितमैणितं दासभाव-प्रभुत्वं हेयादेयं कुरुत सुरत न्यक्रियैकप्रवृत्ति । कर्मेदृक्ष प्रभवति यतः सैष मिथ्याविकल्पः कामो वामः कथमिव न दुःखात्मकः सौख्यरूपः ? ॥२३३॥ स्फुरति सुखसमीहा यद्यहो ! मानसे ते त्यज विषयपिपासां सर्वथा शुद्धबुद्धे ! । दुरधिगमशिखाग्रं शैलमारोढुकामो न विशति विवरान्तः कोऽपि कुत्राप्यमूढः ॥२३४॥ चित्तं त्यज अर्थाद् यथा तत्र रङ्गिते वस्त्रे जलं दत्त्वा-जलेन तत् शालयित्वा तत् तादृशं सरङ्गं वस्त्रं रङ्गरहितं क्रियते लोकेन, रङ्गानाकाङ्क्षी लोकः तादृशं सरङ्गं वस्त्रं त्यजति तथैव त्वमपि सरङ्गंसरागं चित्ताम्बरं त्यज । प्रदत्तजडिम इत्यत्र ड-लयोरैक्यात् 'प्रदत्तजलिम' इत्यर्थ स्वीकृत्य जलक्षालनरूपोऽर्थः संबोध्यः, चित्तरूपं वस्त्रं तु 'प्रदत्तजडिम'-प्रदत्तो जडिमा-जाड्यं येन तत् प्रदत्तजडिम-कामादिकषाययुक्तं हि चित्तं जाड्यवर्धकं भवत्येव इति 'प्रदत्तजडिम' पदं 'जडभावदायि' इत्यर्थ सूचयति । १. विकृतेः इदं वैकृतम्-विकारः । अथवा 'वै कृतम्' इत्येवं भिन्नभिन्न पदकल्पनायां वै सनिश्चयं कृतम्-संपादितं कृतम् इति । २. मणितं हि स्त्रीणां कामक्रीडावसरे जायमानः अव्यक्तः ध्वनिः । 'कणितम्' इत्येतदपि दुःखसूचको ध्वनिः। ३. न्यक्रिया-तिरस्काररूपा निया, सा एव एका प्रवृत्तिः-प्रवृत्तिरूपा यस्मिन् सुरते तत् तादृशं न्यक्रियैकप्रवृत्ति सुरतम् । ४. सौख्यरूपः कामः वामः सन् कथमिव न दुःखात्मकः ? 1 न्दं कुणित डे। 2 °भाव प्रभुत्वं खल। 3 तं व्यक्रियैक खल। 4 'कः शुद्धबद्धेः डे। 5 °द्यसौ मा डे । 6 त्यजति विषयविपाशां स ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy