________________
उच्छ्वासः]
मदनरेखा-आख्यायिका क्षान्तिक्षामोदरी येषामेषा जागर्ति मानसे । दोषोल्लासेऽपि तेषां स्यात् क कोपाटोपतस्करः ? ॥२२६॥ मार्दवाग्निप्रतापेन द्रावयैतां कुशीलताम् । साधुत्वात् सिद्धिसोधे त्वं प्रवेष्टुं लभसे यतः ॥२२७|| वार्यतां वार्यतां माया छायावज्जायभीरुणा । सेव्यतां सेव्यतां धर्मो धर्मवत् स्वार्जवान्वितः ॥२२८॥ पीत्वा संतोषपीयूषं संपद्यस्वाजरामरः । तृष्णा पुष्णाति या तापं साऽप्यतो विनिवर्तते ॥२२९।। राग-द्वेषौ कषायाणाममीषां पोषकौ यतः । एतावपि महावीर ! हन्येतां भवता ततः ॥२३०॥ निमज्जति समन्ततो विषयसंगरङ्गे पुरा
___ समुल्लसिततापयोत्कलिकया ततः क्वथ्यते । १. क्षामोदरी-कृशाङ्गी-तन्वङ्गी स्त्री ।
२. दोषाणाम् उल्लासे-वर्द्धमानत्वे सत्यपि । यथा दोषायाः-रात्रेः, उल्लासे-वर्धमानत्वे, तस्कर:-चौरः समायाति तथा अत्र हृदये क्षमाक्षामोदर्या जाप्रत्यां सत्यां दोषोल्लासेऽपि न कोपाटोपरूपः, तस्कर:-चौरः समायातुं शक्तः इति भावः ।
३. शीतयुक्तेन यथा छाया वार्यते तथा जाडयभीरुणा यथा धर्मः-उष्णता सेव्यते तद्वद् अज्ञानभीरुणा स्वकीयसरलस्वभावयुक्तः धर्मः सेव्यतां सेव्यताम्-द्वित्वं पूर्ववत् ।
४. संपन्नो भव ।
५. अस्मिन् २३१ श्लोके 'सरागचिन्ताम्बरम्' इत्यत्र 'अम्बर'शब्देन वस्त्रं ग्राह्यम् । अत्र 'ल'प्रतौ ‘सरागचिन्ताम्वरम् ' इति पाठः तथापि 'सरागचित्ताम्बरम् ' इत्येष पाठः समुचितः । 'चिन्तारूपम् अम्बरम्' इत्येतस्याः कल्पनातः चित्तरूपम् अम्बरम् इत्येषा कल्पना गरीयसी । ___ अत्र श्लोके वस्त्र केन क्रमेण रज्यते इत्येषा प्रक्रिया प्रदर्शिता, तया सहैव चित्तरूपं वस्त्रं कथं कषायेषु कामादिषु रज्यते ? एषाऽपि प्रक्रिया प्रदर्शिता, तथाहि-अस्य श्लोकस्य प्रथमादिपादेषु रज्यमानं वस्त्र प्रथनं तावद यथा पुरा रङ्गे समन्ततो निमज्जति तथैव चित्तरूपं वस्त्रं पुरा विषयसंगरले समन्ततो निमजति ।
ततः तद् वस्त्रम् अतिशयोष्णजलला तापेन कथ्यते, तथैव चित्तरूपं वस्त्रं समुलसिततापया उत्कलिकया-कामादितापरूपया उत्कण्ठया-आवेगरूपया कथ्यते-विशेषतः आवेगरूपतापयुक्तं जायते। ततः रज्यमानं वस्त्रं स्वरूपविरुद्धक्रमं यथा स्यात् तथा मूलरूपं विहाय कषायघटनां रङ्गप्राप्तिरूपां घटनां भजति-आश्रयति-रङ्गयुक्तं भवति तथैव रज्यमानं कामादिरागयुक्तं चित्तं स्वनिर्मलरूपविरुद्धक्रम यथा स्यात् तथा कषायघटनां कामादिकषायघटनां भजति । एवं चित्तदशायां जातायां मदनरेखा सकान्तं विबोधयति, यत् हे प्रभो! त्वं प्रदत्तजडिम प्रदत्तजलत्वं तत् कषायघटनां मजद वस्त्ररूपं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org