________________
श्रीजिनभद्रसूरिरचिता
[ चतुर्थः माया विना हि न भवति संसारे किमपि वस्तु यदभिमतम् ।
मायाविना हि न भवति संसारे किमपि वस्तु यदभिमतम् ॥२२१॥ ततश्च, दम्भारम्भान्न भवति जनः क्वापि विश्वासपात्रं
दम्भारम्भाद् विफलयति तां स्वामनुष्ठानलक्ष्मीम् । दम्भारम्भात् पतति नरके याति तिर्यक्षु यद्वा
दम्भारम्भाद् विरम विरम स्वं नैयैनं च मोक्षम् ॥२२२॥ सकलमपि गुणगणं हन्ति देहिनां हेन्त ! सर्वथा तृष्णा । सचराचरमपि भुवनं असते यदनित्यतैकाऽपि पश्यत ॥२२३॥ क्षान्तिच्छायाऽतिरम्या रुचिररुचियुता नम्रता पल्लवश्रीः
__ हृद्याऽऽमोदा च शश्वत् कृतसकलफला स्वच्छता पुष्पलीला। आत्मारामप्रसूतेः सुकृतविटपिनः सर्वमेवाप्रमाणं
मूले संतोषरूपे यदि च न निहितो लोभनामा कुठारः ॥२२४॥ प्राणनाथ ! ततोऽमीषां चतुर्णामपि वैरिणाम् ।
सर्वथा निग्रहं कृत्वाऽनुगृहाण क्षमादिकान् ॥२२५॥ १. [ मायेत्याद्यार्याव्याख्या-मायाविना हि-कपटयुक्तेन हि पुरुषेण संसारे किमपि वस्तु न भवति-कोडायों न संपद्यते. यन किम ? यदभिमतम-अभीष्टं. हि-यस्मात कारणात माय दम्भानते. संसारे-संसरणे, भवाद भवान्तरगमने किमपि वस्तु यत त अभिमतं तद न भव संसारीयति-समायस्य सकपटस्य शुभमप्यनुष्ठानं संसारहेतुरित्यर्थः। अग्रेतनं 'बहुसं' यावत् स्पष्टार्थम् ।।
संसारे यत् किमपि अभिमतं वस्तु तत् मायाः-कपटकर्माणि विना न हि भवति? अथवा न भवति-न प्राप्नोति ? इति काका प्रश्नः । उत्तराधे तु एवम् - संसारे यत् किमपि अभिमतं वस्तु तत् मायाविना-मायावी चासो ना च मायाविना- सकपटः पुरुषः न भवति-न प्राप्नोति अर्थात् कपटी ना-नरः संसारे किमपि अभिमतं न प्राप्नोति इति भावः। अत्र 'भूङ प्राप्तौ आत्मनेपदीधातुः तस्य यद्यपि 'भवते' इति रूपं समुचितम् तथाऽपि "आत्मनेपदम् अनित्यम्" इति परिभाषया अत्र 'भवति' इत्यपि नानुचितम् । अथवा "प्राप्तौ अपि परस्मैपदम्" इति अन्ये इति क्रियारत्नसमुच्चये (पृ० २४) निर्देशात् प्राप्त्यर्थेऽपि “भवति'प्रयोगः साधरेव ।
२. नयैनं च-एनं च स्वम्-आत्मानं च नय मोक्षम् ।
३. सुकृतविटपिनः मूले संतोषरूपे यदि च न निहितो लोभनामा कुठारः तदा अतिरम्या छाया, पल्लवश्रीः, पुष्पलीला कृतसकलफला इत्यादि सर्वम् अप्रमाणम् मानरहितम् अर्थात् संख्यातीत संपद्यते, निहिते तु कुठारे सर्व समूलं नश्यति इति भावः ।
४. कृत्वा अनु तदनन्तरमेव, क्षमादिकान् गुणान् गृहाण । ____ 1 हन्त तृष्णा डे । 2 मोद्या च ख । 3 सुकृतिविट° डे । 4 यदि बत नि डे!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org