SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता [ चतुर्थः भगवति वसुधे ! पापं किमीदृशं त्वमपि वहसि पृष्ठगतम् । हा हा हताऽस्म्यहं मन्दभागिनी हतकदैवेन ॥२११॥ इति पूत्कुर्वाणायामेव मदनरेखायां हा स्वामिनि ! किमिदं किमिदमिति वदन्त एवाकृष्टखड्गयष्टयः सर्वतः सपदि मिलिताः सुभटाः । निजकर्मचकितचेतसा च जहिपतमधमचक्रवर्तिना मणिरथेन, हा ! निरवधानता मे धिक्, श्थत्वं प्रत्याकारस्य, यदतः पतितोऽयं हताशः करवालः । सुन्दरि ! सर्वथा मा भेषी:, स्वस्थ एवायं तव प्राणनाथः करिष्यते लग्नः, एष वेद्यानाकारयामीति वदन्नवोपलक्षितः कुमारवीरैः परं 'स्वामी' इति न व्यापादितो नीतश्च पुरतः कृत्वा, राजगृहे निवेदितं सकलमपि इदं चन्द्रयशसोऽग्रे स्वरूपम् । ___सोऽपि हा ! तात ! तात ! किमिदमचिन्तितमापतितमिति प्रलपन्नपि समाहूय व्रणकर्मचिकित्सावेदिनो महावैद्यानागतवानन्तिके जनकस्य । वेद्यरपि चिकित्साकुशलरायुवंदानुसारेण हितैकचित्तरारब्धा बहुविधा चिकित्सा न चोपलेभेऽशोऽपि गुणस्य । विद्याभिरनवद्याभिः स वैद्यैरुपलक्षितः । न जीवतीति मुक्तश्च विद्राणवदनाम्बुजैः ॥२१२॥ धौषधस्य योग्योऽयमतोऽत्रैवानुशिष्यते । धीरा मदनरेखेति ध्यात्वा वक्तुं प्रचक्रमे ॥२१३॥ जीवितेश्वर ! विज्ञप्तिकामिमामवधेहि । इदमनुचितमेव देवताया इव वदतीह वधूः प्रियस्य कृत्यम् । अपनयति सुधाकरो निशायाः किल कलुषत्वमसौ न जातु तस्य ॥२१४॥ क्वचिदिदमपि जीवितेश ! काले समुचितमेव विचक्षणा वदन्ति । अवदति हि मुखे कुतोऽपि हेतोः किमुचितमाह न संज्ञयापि दृष्टिः ॥२१५॥ ततः सकर्ण ! समाकर्णय दत्तको भूत्वा समयोचितं मया किमपि विज्ञप्यमानम्यद्यपि निजपौरुषोपहसितपुरन्दरेण तृणानीवार्यपुत्रेण समूलमुन्मूलितानि रिपुबलानि । जीणशीर्णपतितदेवगृहाणीव स्वामिना परमौदार्यपतिनाऽऽमूलचूलानि संस्थापितानि सकलानि १. [ स्वस्थ इत्यत्र पटुः, अथवा स्वर्गस्थः ।। २. यः कन्धरातो विभक्तः स लग्नः करिष्यते, अर्थात् कन्धरया साध लग्नः संबद्धः करिष्यते इति आशयः । ३. देवतायाः देवरूपस्य इव प्रियस्य । __ 1 "टाः कुकर्म खल। 12 एवार्यस्तव डे। 3 'मीति व्याख। 4 पि चन्द्र ख। 5 यशोऽग्रे ख। 6 'म् हा तात ! खल। 7 लेभे लेशो गुणरय डे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy