________________
उच्छ्वासः]
मदनरेखा-आख्यायिका समृद्धिशाली सदानन्दनैकरतिः सञ्जातः प्रशस्तनयश्चन्द्रयशास्तनयः साम्प्रतं पुनरपरस्ततोऽपि पराक्रमेण विनयेन, नयेनाधिपत्येन मूर्त्या कीर्त्याऽपि समधिकः पुत्रो भविष्यति, यादृगस्माकं सन्ततावपि न बभूव । ____ मदनरेखा तु तद्वचनतस्तथा स्वमनसि तुतोष यथा तत्क्षणादेव वपुषि समधिकां कान्तिं पुपोष । ततः प्रभूत्येव च नयेऽनवच्छिन्ने प्रवर्तमानेऽवनीपते राज्ये इव गर्ने प्रवर्द्धमाने वपुरस्याः सर्वाङ्गसुन्दरमजायत । तथाहि- सुप्रभुप्राभवमिव श्रुतिसंगतनयनरोचितमास्यकमलम् । कुप्रभुप्रभुत्वमिव सश्रीकोपचयकलितयोन्नत्याऽलङ्कतं कुचयुगलम् । पारंदरसच्छुरितकाञ्चनमिव पाण्डुभावमभजत कपोलतलम् । भव्यस्य समुत्पन्नविवेकस्य दुर्नयमतिरिव मन्दाऽपि मन्दतरतामगमद् गतिः । किं बहुना ?
यदानन्दस्थानं यदभिमतमस्याः स्वमनसो
यदुल्लासं जातेजनयति यदाप्तप्रियकरम् । यदेव प्रायः स्यादुभयकुलयोरुन्नतिपदं
शिशौ गर्भस्थेऽस्यास्तदखिलमभूदद्भुतमिति ॥१८८॥ सततानन्दसंपदापास्तसमस्तविषादतया विस्मृतनरेन्द्रशङ्काऽपि प्रैथमसमितिसमितयतिरिव पथ्यासक्तचित्तया सर्वथा निरातङ्काऽपि सुविशुद्धपक्षमुख्यलेखेवामृतमयूखस्य तनोस्तानवमतीव बिभ्राणा प्राणप्रिया समालोक्य युवराजेनापृच्छयत-प्रिये ! कथय किमपचयकारणं शारीरिक मानसिकं वा यदेवंभूतां भवतीमालोकयामि किं तवापि किञ्चिदपरिपूर्णम् ? ।
ततस्तयोक्तम्- नाथ ! जानेऽहं यदि जिननाथप्रतिमानामप्रतिमानामा निर्वतयामि । (नि)ष्वित्यर्थः, विषये यः कोपचयः क्रोधवृद्धिस्तेन कलितया उन्नत्या उच्छ्रयेणालंकृत कुप्रभुप्रभुत्वम् । अथ च सश्रीकेण सशोभेन उपचयेन काठिन्येन कलितया उन्नत्याऽलंकृतं कुचयुगलम् अग्रेतनं स्पष्टम् ।
कुप्रभुहि कुत्सितो भूपालः, स च सश्रीके जने सधने जने श्रीमति जने तद्धनापहरणाय कोपं करोति इति सुप्रसिद्धम् ।
१. पारसरसेन चाकचिक्यप्राप्तं सुवर्ण पाण्डुवर्ण भासते इति तदुपमानमत्र ।।
२. [ अग्रे ईर्यासमितो यतिः, पथि मार्गे, आसक्तचित्तः सावधानमनाः भवति । मदनरेखा तु पथ्ये हितभोजनादावासक्तचित्ता । ]
३. शुक्लपक्षो हि सुविशुद्धः पक्षः । तस्मिन् पक्षे अमृतमयूखस्य चन्द्रस्य या मुख्या लेखा द्वितीयायाः तिथेः चन्द्ररेखा ।
४. [अग्रे जिनप्रतिमानाम् अप्रतिमानां निरूपमाणाम् ।]
1 विनयेनाधि' खल। 2 नये व(वा)ऽनव ल, नयेऽच्छिन्ने ख। 3 मुप्रभाव डे। 4 °रदच्छु डे । 5 °सं ज्ञाते' ख । 6 °पास्तवि' डे । 7 तनौ तान डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org