SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ४ श्रीजिनभद्रसूरिरचिता [ तृतीयः प्रियतमाऽऽनन्दमुखमुकुरतलप्रतिफलितं निजमपि मुखम् । केवलं राजकुले वा देवकुले वा क्रीडाचले वा राजपाटिकायां वा प्रमदवनदीर्घिकायां वा युवराजस्य महीपतेः सकाशादनिष्टमाशङ्कमाना कवलितकालकूटकवलेव तुच्छेतरमू विकलेव मृतेव तावदास्ते, यावल्लोचनपथचारी न भवति कुमारः । लोचनपथचारिणि तु तत्रास्वादितामृतेव निवृत्तमूर्च्छव प्रत्युज्जीवितेव लब्धनिधानेव समधिगतराज्येव सञ्जातपुत्रेव संपद्यत इति । व्रजति च काले कदाचित् सा सुमुखी सुखशय्यातलप्रसुप्ता प्रवर्तमाने प्रभोद्भेदाभिरामे रजनिविरामे निर्धूतप्रभूतदोषान्धकारं जिनचन्द्रमिव परिपूर्णचन्द्रं स्वप्ने ददर्श । अपगतनिद्राव्यापारा च स्मृतपरमेष्ठिपञ्चनमस्कारा ययावन्तिकं युवराजस्य । तेनापि तत्कालप्रबुद्धेन मरुदेवीव 'विशालनयनाभिरमणीया, मन्दोदरीव निष्कलङ्ककभूषणम् , राजीमतीव सर्वदा नेमितरङ्गितरागातिशया समालोक्य समुचितासने चोपवेश्य सानन्दमनुयुक्ता। प्रिये ! कथय किमिहागमनप्रयोजनम् ? । तया पुनः प्रभातसन्ध्ययेव विकस्वरवदनारविन्दया मधुकरमधुरध्वनिना विज्ञप्तः स्वप्नवृत्तान्तः । युवराजोऽपि तदाकर्णनप्रादुर्भवदमन्दानन्दाविरलपुलकवशकदम्बकुसुमायमानकाययष्टिः स्पष्टमुवाच-प्रिये ! धन्याऽसि, कृतपुण्याऽसि, सुलब्धजन्माऽसि, सुलक्षणाऽसि, यस्यास्तदावेदकः प्रागेव देवे इव निसर्गत एव दूरोज्झितकुसङ्गतिः सुरसभावहितमतिः श्रुतावधि १. [ विशालनयो 'हा'कारादिनीतिप्रयोजनकत्वात् , यो नाभिः, आदिजिनपतिता ( पतिपिता ) तेन रमणीया मरुदेवी, निष्कस्य सवर्णस्य या लङ्कापरी तस्याः एक भूषण मन्दोदरी। सर्वदा नित्यम् , नेमौ नेमिनाथे, तरङ्गितरागा राजीमती । मदनरेखापक्षमाह-विशालनयनैर्दीर्घलोचनैः अभिरमणीया, निष्कलङ्कानां कलङ्करहितानां मानवानाम् । एकं भूषणम् । सर्वदाने सर्ववितरणे, अमितं प्रचुरं या यथा भवति, एवं तरङ्गितः प्राप्तो रागातिशयो यस्यां सा तथा ।] . २. [देव इवेत्यादि-देवो हि उज्झिता, कोः पृथिव्याः संगतिः येन चतुरङ्गुलमस्पृष्टभूमित्वात् सुरसभायां सुरसदसि, अवहिता सावधाना मतिर्यस्य स तथा । श्रुतावध्योः श्रुतज्ञानावधिज्ञानयोः समृद्धिशाली, नन्दने नन्दनवने एकाऽद्वितीया रतिर्यस्य स तथा । चन्द्रयशाः कुमारस्तु उज्झितकुसंगतिः त्यक्तकुसंसर्गः । सुष्ठु शोभनेभ्यो रसेभ्यः शङ्गारादिभ्यो भावेभ्यो रत्यादिभ्यो हिता मतिर्यस्य स तथा । श्रुते शास्त्रे या अवधिः समृद्धिः सावधाननिष्ठा तया शालते इत्येवंशीलः । सतामानन्दनाय एका रतिर्यस्य स तथा ।। अवधिः अवधानं तदेव समृद्धिः । ३. [श्रुत्या संगत्या संगतः शास्त्राविरुद्धो नयः नीतिर्येषां तेषां नराणामुचितं सुप्रभुप्रभावम् । श्रुतिसंगते कर्णान्तविश्रान्ते ये नयने ताभ्यां शोभितम् आस्यकमलम् । सश्रीषु श्रीसहितेषु धनु ___1 मुखं मु डे, मुखरमु ल। 2 °कायां प्र ख। 3 °चारी भवति खल । 4 'विशाल' पदं नास्ति डे आदर्श । 5 ती स डे । 6 °चिते चासने चोपविश्य डे। 7 यस्यास्तव तावदेकः ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy