SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः ] मदनरेखा-आख्यायिका शुद्धाशयः कुटिलतां न खलस्य वेत्ति शुद्धाशयत्वमखलस्य खलोऽपि नैव । अज्ञानमूढहृदयः सुजनः खलो वा स्वात्मानुरूपमखिलं कलयत्यवश्यम् ॥१८६॥ प्रियंवदाऽपि सत्याऽपि वल्लभाऽपि हिताऽप्यहो !। न भार्या बान्धवस्थाने कुलीनस्य कथञ्चन ॥१८७॥ अप्रतिपन्नेऽथ मदीयवचने मामेवाकुलीनामलीकां वा कलयिष्यति । ततो दग्धोपरि स्फोटकोद्भवोऽयम् । प्रतिपन्नेऽपि वा न परिणामसुन्दरमिदम् । यतः, प्रथमजलधरधाराधोरणीसमुल्लासितावस्करेणेव तरङ्गिणी मम वचनश्रवणेन ध्रुवं युवराजचेतोवृत्तिः कलुषा भविष्यति। तस्मात् तन्निमित्तो राग-द्वेषपराधीनात्मनोस्तयोः द्वयोरपि स कोऽपि विश्लेषो भविष्यति । यः कठिनश्लेष इवानवच्छिन्नवरस्य कारण भूत्वा कस्य कस्य न महादुःखहेतुतया संपत्स्यते । ततः सत्यमिदं व्याहृतादव्याहृतं श्रेय इति । कथमन्यथा त्रिभुवनगुरुणा भगवता तीर्थकरेणापि राज्यं सान्तःपुरमप्यपहायानुत्पन्नज्ञानेन पुरस्कृतोऽयं वाक्संयमः । तदज्ञानगोचरेऽर्थे प्राणिनामेकं मौनव्रतमेव परमो बान्धवो वा सुहद् विभवो वा नवाऽधिको निधिर्वा ततः कारणात् सर्वथा गजनिमीलिकैव तावदौचित्यमञ्चतीति न किञ्चिदाख्याति स्म । तथापि तदागमनशङ्कया राहुघटनयेव दिनकरप्रभा, दिनकरभयेव चन्द्रचन्द्रिका, चन्द्रचन्द्रिकयेव प्रदीपशिखा, प्रदीपशिखयेव मालतीमाला सा बाला विच्छायकाया यदृच्छया नाहारयति शरीराधारमप्याहारम् , न बध्नाति सकलालङ्कारसारमपि मुक्ताहारम्, न बहु मन्यते संपादितरुचिरशरीरपरभागमप्यङ्गरागम्, नाद्रियते परिपोषिताऽशेषभूषणानुलेपनश्रीविशेषमपि दिव्यं वेषम् । किमपरम् , विरचितरुचिरनयनाञ्जनरेखा भालतलकलिततिलकविशेषा न वीक्षती(ते) प्रदत्त १. [नवरं कठिनश्लेषो विरसस्य नीरसस्य भावो वैरस्यम्, अथ च वैरस्य वैरिभावस्य कारणम् ।] २. अत्र ‘भगवता महावीरेण वीतरागभावप्राप्तेः पूर्व बहुशः मौनं स्वीकृतम् आसीत् ' इत्येषा भगवतः प्रतिज्ञा निदर्शिता । ३. नवाधिको निधिः नवनिधयः प्रसिद्धाः, मौनव्रतं तु ततोऽपि अधिको निधिः इति भावः । ४. [ मदनरेखा ।] 1 पन्ने म ख, पन्नेव (वा) म ल। 2 °रि पिटको दोऽयम् खल। 3 तस्मानिमि खल । 4 °त्मनोद ख । 5 °चितीति खल। 6 * * एतच्चिह्नान्तर्गतः पाठो निर्गलितः डे आदर्श । 7 प्रभयेव प्रदीप ख । 8 "यदच्छ्या ' इति पदं नास्ति खल आदर्शयोः । 9 °दितशरीररुचिप डे, दितशरीररचिरप ल। 10 नेक्ष्यते (नेक्षते) प्र डे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy