________________
श्रीजिनभद्रसूरिरचिता
[ तृतीयः दिवसपतिविमुच्य पूर्वामपि यात्यपराम् । अथ च स पूज्य एव सन्ध्याकृतरागभरः, रैविपुरुषान्तरं न पश्यति, अपि नश्यति वो तदपि निगद्यते सदोषा रजनी हि जनैः । ततः प्रत्यक्षीकृतेऽपि स्वलोचनाभ्यां मया स्वयमेव प्रतिपद्यमाने यथावस्थितेऽपि भूपतिस्वरूपे वञ्चकत्वादिदोषप्रवादाधारतया हतकस्य युवतिवर्गस्य, निरवधितया बान्धवपक्षपातस्य स्वच्छाशयतया निजचित्तवृत्तेर्न प्रत्येष्यति युवराजः । यतःउचिता । विस्तारिणस्तरङ्गाः यस्यां सा तथा । कमलैः-पद्मः अभिरामा । परमहंसे-राजहंसे बकेऽपि तत्तदुचितं संपादयन्ती ।]
सदम्भा-सकपटा स्त्रीजातिः, पक्षे विद्यमानजला नदी । असौ स्त्रीजातिः अमृतपदम्-आत्मपूर्णतायाः स्थानम् , असौ नदी अमृतपदम्-जलस्थानम् । स्त्री० पक्षे कुलीना-कुलमर्यादावती, नदीप कुलीना-पृथिव्यां लीना । स्त्री०पक्षे धीवरोचिता-धीवराणां बुद्धया बृहस्पतीनाम् उचिता, नदीपक्षे धीवरोचिता धीवराणां-कैवर्तानां-मत्स्यग्राहिणाम् उचिता । स्त्रीपक्षे विस्तारितरङ्गा-विस्तारितः रङ्गः-रागः नृत्यं वा यया सा, नदीपक्षे विस्तारितरङ्गा-विस्तारिणः तरङ्गाः यस्याः सा । स्त्री० पक्षे कमलाभिरामा कमलया-लक्ष्म्या अभिरामा वा, कमला इव-लक्ष्मीरिव अभिरामा-सुन्दरा, नदीपक्षे कमलाभिरामा कमलैः अभिरामा अथवा कस्य मल:-कमलः तेन अभिरामा जलपङ्कवती जलपङ्केन अभिरामा । स्त्री०पक्षे परमहंसा इव संन्यासिनी इव, केऽपि आत्मनि, परब्रह्मणि वा अपि तत् तद् उचितं संपादयन्ती-संपन्नं कुर्वती, नदीपक्षे केऽपि जलेऽपि तत् तद् उचितं परमहंसाः परमाः उत्तमाः हंसाः यस्यां सा परमहंसा राजहंसयुक्ता सती अथवा परमहंसे राजहंसे वके बके अपि तत तदचितं संपादयन्ती नदी । अत्र बवयोः साम्येन 'वके' इत्यनेन ‘वके' बोध्यम् । स्त्री०पक्षे समूलम् उन्मूलितं कुलकूलं जनकुलकूलं यया सा समूलोन्मूलितकुलकूला, अत्र कूलं तटा मर्यादा इति यावत् ; नदीपक्षे अपि तादृशी एव । अत्र कूलं नाम तटः नदीपटः बोद्धव्यः।
'अविश्वासप्रवाहा' नद्याः प्रवाहः कदा कथं जनं नाशपथं नेष्यति इत्येवं न विश्वसितुं योग्यः, अतः अविश्वासः विश्वासरहित: प्रवाहो यस्याः सा । स्त्रीजातिन विश्वसितुं योग्या इत्येवं स्त्रीचरितविज्ञानकुशलाः केचित् मन्यन्ते अतः स्त्रीजातिः अपि अविश्वासप्रवाहा विश्वासरहितःप्रवाहो यस्याः सा । 'प्रवाह 'पदम् अत्र 'व्यवहार'अर्थसूचकम् , “प्रवाहो व्यवहार-अम्बुवेगयोः" [- है० अनेका० कां० ३, श्लो० ८१०]
१. [दिवसपतिः आदित्यः, पूर्वा प्रथमभार्या विमुच्य, अपरां द्वितीयां, याति सेवते सन्ध्यायां तु तृतीयभार्यायां कृतः रागभरः अनुरागप्रसरो येन स तथा । रविमेव पुरुषान्तरं न पश्यति तस्मिन् रवावागतं न नश्यति, तदपि सदोषा रजनी निगद्यते इति सूर्यस्य पुरुषत्वान्न कोऽपि दोषं ददाति, रजनी तु स्त्रीत्वेन तं लभते । अथ च पूर्वा प्राची, अपरा च पश्चिमा दिक् संध्यायामभ्ररागः, सदा नित्यम् , रजनी 'उषा' अभिधातः, अशेषं स्पष्टम् । अग्रेतनं तावत स्पष्टं यावद्धि विशालनयना इत्यादि । 1
२. रविरूप पुरुषान्तरं रजनी न पश्यति, इयदेव न किन्तु रवौ आगते या नश्यति अपि, एतादृशी पतिपरायणाऽपि रजनी सदोषा निगद्यते ।
1 वा न तदपि ल। 2 यथाचरितेऽपि डे। 3 रूपेऽपि व ख । 4 वृत्ते न प्र खल।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org