SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ उच्छवासः ] मदनरेखा-आख्यायिका मम हृदि यदि वैज्राङ्गी न भवसि तत् त्वमसि सुभ्र ! वज्राङ्गी। हन्ति हतको हताशो हहा हहा मामनङ्गोऽयम् ॥१८४॥ इति प्रलपन्नेव तदनु तनुमात्रमपि केदाग्रहतानवमनासादयन्नेव दैवहतमतिः सोदरेऽपि सञ्जातद्रोहपरिणतिरांपूर्य पूर्यहृदयम् , अधिकीभूतया महाकलुषितयेव कलितां मलिनां मुखच्छायां बिभ्राणः, कवलितेनेव खादिराङ्गारैः, तक्षितेनेव सर्वतः कृपाणैः, आलीढेनेव कपिकच्छूबीजकोशीभिरतीवदोदूयमानेन, तामेव मदनरेखामनुवर्तयितुमिव सहानागतेन मनसा शरीरमात्रेण ययावावासम् । मदनरेखा तु तृतीयज्वर इव तस्मिन्नागत्य गते मनागुच्छ्वसिताऽपि पुनरागमनभैये प्रकम्पमानमानसा चेतसीदं चकार धिक् कष्टम् , निर्लक्षणेयमतीव स्त्रीजातिः, यतः पापीयसी तथा कथञ्चिदतितरां संदम्भा नदीव घटिता-यथा असावमृतपदमपि, कुलिनाऽपि, धीवरोचिताऽपि, विस्तारितरङ्गाऽपि, कमलाभिरामाऽपि, किं बहुना ? संपादयन्त्यपि परमहंसे-व-केऽपि तत्तदुचितं समूलोन्मूलितकुलकूलेव प्रतिकूलत्वकलितैव ध्रुवमविश्वासप्रवाहै' साधुभिरपि निन्दनीया वर्तते । तथाहि कलयति यदि कुन्देन्दूपमानं सतीत्वं वदति च यदि सत्यं सर्वसत्त्वानुकूलम् । त्यजति यदि परेषां वस्तु चामेध्यबुद्ध्या तदपि युवतिजातिर्निन्द्यते दैवदग्धा ॥१८५॥ १. 'वज्राङ्गी' वज्रवत् कठोरम् अङ्गं यस्याः सा ईदृशी त्वं न भवसि कठोरा न भव इति भावः । हे सुभ्र! त्वं वज्राङ्गी "वज्रा तु अमृता' [-है ० अनेका ० कां० २, श्लो० ४६५] इति वचनाद् वज्रा अमृता लता तद्वत् कोमलम् अङ्गं यस्याः सा ईदृशी त्वमसि, मम हृदये त्वं कोमलाङ्गी असि, अत एव अनङ्गो मां हन्ति इति आशयः। २. कदाग्रहतानवं कदाग्रहतनुताम् । ३. तया मदनरेख़या पूर्यहृदयम् , आयूर्य भृत्वा इति ज्ञेयम् । पूर्वहृदयम् ' अत्र यदि 'पूयहृदयम्' इति पाठः स्यात् तदा विशेषतः समुचितः । पूर्य दुर्गन्धि दुवृत्तेन राज्ञो हृदयं पूर्य दुर्गन्धि जातम् इति आशयः । ४. [ ( 'सन्मार्गस्खलनम्' इत्यतः) अग्रे तावत् स्पष्टं यावत् 'पापीयसी' इत्यादि । सदम्भा-सकपटा, पक्षे शोभनाम्भःसहिता । अग्रे स्त्रीजातिपक्षे अमृतस्य-मोक्षस्य पदं तद्गामित्वात् ।' कुलीना-कुलजा, धिया-बुद्धया वराणाम् अर्थात् सुशीलस्वातीनाम् उचिता-योग्या । विस्तारितो रङ्गो यया सा तथा, कमलावत-लक्ष्मीवद् अभिरामा । परमहं-परमोत्सव, तत्तद उचितं सेवकेऽपि संपादयन्ती । नदी तु अमृतानामधिष्ठायकदेवानां पदम् । को-पृथिव्यां लीना, धीवराणां-कैवर्तानाम् 1 'तत् त्वमसि' इति पाठो नास्ति डे आदर्श। 2 रापुर्यापूय डे । 3 त एव ख। 4 वावासाम(न्) खल। 5 भयेन प्र डे । 6 सावप्यमृ डे। 7 दुपचितं डे । 8 °लोन्मूलोन्मूख । 9 कूलेव डे। 10 लिव डे । 11 हैवैवेति साडे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy