________________
उच्छ्वासः ]
मदनरेखा-आख्यायिका वरमेकं विषमरण नारीणामैनुगतिर्न चान्यस्य । मारेऽपि सदा-कारागारे वल्गति कुलीनानाम् ॥१७६॥ यः पतितादपि पतितो भिन्नो दधदपि सदाचरणलीलाम् । यो-नाऽपर(रा)मिच्छति त(तां) तन्मुखमपि नेक्षितुं युक्तम् ॥१७७॥ पैश्यन् मां स्मरदृष्टया कामातुएँ ! शङ्कसे न युगबाहोः । विषये स्पृहा तवैषा का-मातु-र-शङ्कसे न युगबाहो ! ॥१७८॥ अपि च, सन्मार्गस्खलन विवेकदलनं प्रज्ञालतोन्मूलनं
गाम्भीर्योद्वमनं स्वकायदमनं नीचत्वसंपादनम् । १. [कुलीनानां नारीणां स्त्रीणां वरं प्रधानं, एकम् अद्वितीयम् । विषेण गरलेन मरणम् , न चान्यस्य परपुरुषस्यानुगतिः संगमः । क सति ? मारेऽपि कामेऽपि, वल्गति सति । किंभूते ? सत् शोभनो य आकारः आकृतिः, तस्य आगारे आवासे अतः तत्त्वं त्वत्समाहितमाचरामीत्यर्थः । अथ च कुलीनानाम् अर्थसामर्थ्याद् रूपाणां मारे मृत्यौ, सदा नित्यं, कारागारे कारागृहे वल्गत्यपि वरं प्रधानं, एकं विषमरणं दुष्करसंग्रामः । न नैव तु अरीणां शत्रणाम् , अनुगतिः सेवा, न चान्यस्य भूपतेः सेवा, एतावता मदनरेखायाः स्वस्य ज्येष्ठस्य चाचारो निवेदितः ।]
विषमरणं-विषभक्षणपूर्वकं मरणम् अथवा विषमं रणं-युद्धम् , सदा-कारागारे सदा कारागाररूपे अथवा शोभनाकारागारे मारेऽपि कुलीनानां स्त्रीणां पुसां च न अन्यस्य अनुगतिः बल्गति । अत्र 'कारागारम्' इति अखण्डमपि पदम् कारायाः बन्धनस्य अगारं गृहम् इति कारागारम् । तथा शोभनाकारस्य अगारे-गृहे इत्यत्र गृहवाची 'अगार' पदमपि ।
२. [ पतितादपि अगम्यगमनादिना भ्रष्टाचारादपि, पतितः परिणेतुः सकाशाद् यो भिन्नः अन्यः, सत् शोभनाम् , आचरणलीलाम् आचारचातुरी दधदपि धारयन्नपि । तं पति परपुरुषं या काचिद् ऊना शीलरिक्ता इच्छति सेवितुमभिलषति, शेष स्पष्टम् । अन्यत्र पतितादपि मृतादपि आस्तां जीवतः स्वामिनः सकाशाद् यो भिन्नः व्यतिरिक्तः, सदा नित्यं रणस्य युद्धस्य लीलां दधदपि तमेवंविधम् अपरं प्रभुवैरिणं यः कश्चिद् ना पुरुषः स्वामित्वेनेत्यर्थः ! इच्छति तन्मुखमपि नेक्षितुं युक्तम् ।]
३. यो ना पुरुषः, ताम् अपराम् इच्छति इति अन्वयः । अथवा या ऊना शीलेन ऊना अपरम् नरम् इच्छति इत्यपि आशयः ।।
४. [ हे कामातुर ! मां स्मरदृष्टया सकामचक्षुषा पश्यन् युगवाहोलघुभ्रातुन शङ्कसे न बिभेषि । अशङ्का निर्भया सेना यस्य स हे अशङ्कसेन ! युगबाहो ! युगप्रलम्बदोर्दण्ड ! मणिरथक ! तवैषा मातुर्विषयस्पृहा मातरि लघुभ्रातृपत्न्यां चागम्यत्वसाम्यात ।।
५. "शङ्का स्यात् संशये भये-(है ० अ० का० २, श्लो० १) इति वचनात् अशङ्का निर्भया इति आशयः ।
1 °मनुनति डे। 2 लीनाम् ख। 3 °रवंशसेन ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org