________________
७८.
श्रीजिनभद्रसूरिरचिता
[ तृतीयः ___ स पुनरीदृशेऽपि कुग्रहविग्रहनिग्रहभास्करायमाणेऽपि सदुपदेशे, तथाविधेऽपि सहृदयकुमुदसुधाकरायमाणे चेष्टिते स्फुटेऽपि 'जनकोऽसि' इत्यादिवचनपीयूषतो हृदयसमुद्रे कथमसौ मम श्रवणपीयूषं भणितं विस्तारयिष्यति इति चिन्ताचक्रभ्रान्तस्वान्ततया घेटयन्नात्मनो दुर्घटान् सदैन्यमुवाच
और्ववहिरिव मन्मथानलो वारितोऽपि हरिणाक्षि ! वर्धते ।
अङ्गसङ्गसुधयाऽऽत्मनोऽनया सत्वरं शैममतः स नीयताम् ॥१७३॥ मदनरेखया तु चिन्तितमहो! सर्वप्रकारैरसाध्योऽयं व्याधिरुपेक्षणीयश्च । यावच्चाद्यापि नार्यपुत्रागमनसमयस्तावदत्रासितुमनाः संभाव्यते । न चोपशमसारवचनव्यापारयोग्योऽयम् । यतः
उपेंशमितक्षुद् द्रााऽमृतसोदरशान्तरसतरङ्गिण्या ।
मम वाण्याऽपि न शमितः शृङ्गारागारदाहोऽस्य ॥१७४॥ तथाऽपि नोपेक्षणीय इति पुनरुवाच ।
सँह-जरा-मरणोदयवीक्षणादपि न यो विरमत्यधमात् पथः ।
जगति राक्षस एव स तत्त्वतः पँबलमानवशं गतवानपि ॥१७५॥
हे नरवीर ! त्वं बुद्धया विराजितः असि, नरवीरैः अथवा नरवीरेषु विराजित त्वः बोधितः सन् न भासि अर्थात् त्वं स्वयं बुद्धयस्व, तव बोधने न तव शोभा इति भावः । रविः न रविराजितः, न अन्यरविणा रवी राजितो भवेत् ।
१. [कुग्रहाणां मङ्गलानां कदाग्रहाणाम् । विग्रहाः शरीराणि, विस्ताराश्च तेषां तिरस्करणाद् भास्करिते ।]
कुग्रहाः मङ्गल-बुधप्रभृतयः, कदाग्रहाश्च दुराग्रहाः । तेषां यथाक्रम विग्रहाः शरीराणि विस्ताराश्च । तेषां भास्करसमाने प्रकाशरूपे च सदुपदेशे ।
२. आत्मनो दुर्घटान् घट्यन् सदैन्यमुवाच ' इति अन्वयः । ३. और्वः वडवानलः । ४. अतः स शमं नीयताम् इति अन्वयः ।
५. [उपशमिता क्षुत् क्षुधा यया सा द्राक्षा अमृतं च तयोः सोदरः शान्तरसः तत्तरङ्गिण्या नद्या । अथ च, अन्यत्र उपशमितानि क्षुद्राणि अक्षाणि इन्द्रियाणि यस्याः सकाशात् सा तथा । तस्याः अमृतसोदरस्य शान्तरसस्य तरङ्गिण्या, शेषं स्पष्टम् ]
६. 'उपशमिताद' इति द्राक्षायाः विशेषणम् , तथा अमृतसोदरशान्तरसतरङ्गिण्याश्च विशेषणमपि नानुचितम् ।
७. सिहजः अकृत्रिमः यः रामस्य काकुस्थस्य, रणोदयः सङ्ग्रामप्रारम्भः, तद्वीक्षणादपि अधमात् पथात् निन्द्या मार्गात् , यः न नैव विरमति स प्रबलस्य मानस्य वशंगतोऽपि तदायत्तोऽपि, स तत्त्वतः स्वभावतः राक्षसः एव रावण एवेत्यर्थः । अन्यत्र सह समं जरा-मरणाभ्यां वर्तते सहजरामरणः स चासौ उदयश्च-राज्याधुच्छ्रयः तद्वीक्षणादपि अधमात् पथः यो न विरमति स तत्त्वतः परमार्थतः राक्षस एव राक्षसाचारचारित्वात् । किंविशिष्टः ? प्रबला ये मानवाः सुभटाः, शं सुखं च तत् कर्मतापन्नं गतवानपि । ]
८. प्रवलं मानवसौख्यम् । गतवान् प्राप्तवान् । 1 न्तस्यान्त° डे । 2 नो दुःखघान् डे । 3 तथा नो ख ।
पर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org