________________
उच्छवासः ]
मदनरेखा-आख्यायिका स्मर एव गले शिलाऽङ्गभाजः संसृतिरौद्रसमुद्रमुत्तितीर्षोः । अयमूर्ध्वगतिविलक्षणोऽपि व्रजति ब्रह्मपदं किमन्यथा न ॥१६६॥ स्मर एव महातमः पृथिव्यां यदयं लुम्पति देहिनोऽस्य दृष्टिम् । अत एव विमार्गचारितैषा प्रकटज्योतिषि शास्त्रलोचनेऽपि ॥१६७॥ स्मर एव विजीयतां किमन्यैर्यदनेनैव जितेन साध्यसिद्धिः । उदिते गलितुं हि सैहिकेये परिपूर्णोऽपि विभाति किं सुधांशुः ॥१६८॥ स्मर एव जितो जयाय पुंसां विजिते तत्र सुखं न चापरस्मिन् । कुलशीलपराक्रमक्रमेषु पँहरं देहि विधेहि चात्मपथ्यम् ॥१६९॥ स्मर एव रुणद्धि सद्विवेकं दलयन्तं कुमतिं शरीरभाजम् । प्रथिते घनमण्डलेऽन्तरिक्षे न रुचिर्भानुमतोऽपि हन्ति जाँड्यम् ॥१७०॥ जनकोऽसि मम त्वमुच्यसेऽदः स्मरसंबन्धमितस्मरश्च भूयाः । कुरु राज्यमकार्यचेष्टितं तु त्यज विस्तारय कीर्तिमिन्दुशुभ्राम् ॥१७१॥ स्वयं बुध्यस्व बुद्धयाऽसि नरवीर ! विराजितः ।
बोधितो हि न भासि त्वं न-रवी-र-विराजितः ॥१७२॥ १. शिला-पाषाणः । यस्य गले शिला लज्जा स कथं जले तरणसमर्थः । २. राहो । ३. [ अग्रेतनानि वृत्तानि सुगमानि । प्रहरं रक्षाङ्गीकारम् ।। प्रहरं देहि यामं देहि, भाषायां 'पहेरो दे-चोकी कर' इति आशयः अनेन वाक्येन व्यज्यते ।
४. कुमतिं दलयन्तं सद्विवेकं शरीरभाजं स्मर एव रुणद्धि इति अन्वयः । अत्र सन् प्रशस्तः विवेको यस्य तादृशं शरीरभाजम् इत्येवं 'सद्विवेक 'पदं शरीरभाजो विशेषणम् ।
अस्य पद्यस्यायमाशयः त्वं मम जनकतुल्यः पितृतुल्यः अतः त्वयि ममत्वं तेन अदः इदं प्रस्तुतम् उच्यसे त्वम्-त्वामहं इदं वच्मि । स्मरबन्धं पुनः पुनः स्मरस्य बन्धनं यथा स्यात् तथा स्मरस्य बन्धनपूर्वकम् इतस्मरः गतस्मरो भूयाः । 'स्मरसंबन्धम् ' इति पाठे स्मरं सम्यग् बध्वा यथा स्यात् तथा निरुद्धय इतस्मरो भूयाः । एवं च कृत्वा राज्यं कुरु, अकार्यचेष्टितं त्यज, तथा इन्दुशुभ्रां धवलां कीर्ति विस्तारय इति ।
५. [स्वयमित्यादौ हे नरवीर मणिरथ ! बुद्धया विराजितोऽसि, 'तत् 'शब्दाध्याहारोऽत्र, ततो बोधितोऽन्यैरित्यर्थः, न भासि-न शोभसे । अर्थान्तरन्यासमाह-हि अस्मात् कारणात्, रविः आदित्यः, न नैव, रविणा आदित्यान्तरेण राजितः शोभितः, स्वयं तस्य शोभमानत्वात् ]
1 नास्त्ययं श्लोकः खल आदर्शयोः। 2 *** एतच्चिह्नान्तर्गतः पाठः डे आदर्शे पतितः । 3 जाड्याम् ख । 4 स्मरबन्धमतस्म° डेल । 5 °न्दुशोभाम् डे । 6 स्वयमुद्यस्तबुद्धयाऽसि डे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org