________________
७६ श्रीजिनभद्रसूरिरचिता
[तृतीयः तरङ्गरङ्गिता भवति । ममाप्येतस्या मुखमीक्षमाणस्यैव तदानीमयमनुरागसागरः समुल्ललासेति वितर्कमुखरितो विरुराव-मञ्जुलालापपीयूषमेघलेखे मदनरेखे चन्द्रलेखाज्योत्स्नयेव चकोरमिथुनं निजवदनचन्द्रिकया कारय चिरतृषिते मम लोचने पारणंम् ।
अहो ! दुराचारताऽतिमात्रा अस्येति ध्यायन्ती सा पवित्रचारित्रा दशनांशुवरत्राभिस्तमधममनङ्गान्धमगाधव्यसनान्धकूपादुद्दिधीर्घरिवाब्रवीत् ।
कुमारेण सुमारेण यो यो मारममारयत् । तस्मै तस्मै नमस्तस्मैऽन्यस्मै कस्मैचिदस्तु मा ॥१६१।। यास्त्रायन्त इहान्वहं तव कुलं शीलं बलं प्रोज्ज्वलं
मर्यादा च कुलीनता च विशदप्रज्ञा च लज्जाऽपि च । : त्यक्तास्ता अपि येन भीस्मनसा कन्दर्पमातङ्गत
स्तस्याऽसत्त्वशिरोमणेः कथमहो! द्रष्टुं मुखं युज्यते ॥१६२॥ रुचिरहितैव विना शमेन साऽविरतिरनीतिपथादकारि या । रुचिरहितव विना शमेनसामिह विदधाति समन्ततोऽप्यसौ ॥१६३॥ स्मर एव शरीरिणोऽन्तरङ्गद्विषतामप्रतिमां तनोति पुष्टिम् । ईत एव यदुल्लसन्ति सर्वे जगति क्रोध-मद-प्रपञ्च-लोभाः ॥१६४॥ स्मर एव कलङ्कपङ्कहेतुर्विमलस्यापि कुलक्रमस्य लोके । न विना हि कुरङ्गसंगतेः स्यादपरं लाञ्छनमस्य शीतरश्मेः ॥१६५॥
१. [कुमारणेत्यादौ-कुत्सितमारेण उपवासाऽऽचामाम्लादिना। शोभनमारेण, भरतचक्रीव स्वादर्शकगृहान्तर्गतः ध्यानेन मार-कामं यो योऽमारयत् क्षपितत्वात् , शेषं स्पष्टम् ।]
२. [या अनीतिपथात्-अन्यायमार्गात् शमेन विना विरतिः-निवृत्तिः, अकारि-कृता, सा रुचिरहितैव, एवंविधव्यवसायिनः नास्ति निवृत्तिफलमित्यर्थः । रुच्या-श्रद्धया राजन्ते रुचिरास्तेभ्यो हितैवासौ विरतिः एनसां विनाश:-पातकानां क्षयं विदधाति, न तु श्रद्धाविकला।]
__अस्य श्लोकस्य एवमन्वयः-विना शमेन या अनीतिपथाद् अविरतिः अकारि सा अहितैव रुचिः, असौ अहितैव रुचिः शं विना-सुखं विना इह जगति समन्ततः अपि एनसां-पापानां विदधाति-सर्वथा इह जगति पापानि एव विदधाति अर्थात् भवतां रुचिः अहितकारिणी तथा पापविधायिका च ।
३. द्वेष्टि इति द्विषः । अत्र "नाम्युपान्त्यम्" [५।१।५४] सूत्रेण 'क'प्रत्यये 'द्विष'पदम् अकारान्तम् , द्विषस्य शत्रो वः द्विषता-शत्रुता-ताम् । ___1 मेघमाला[लेखे डे । 2 °न्ती ततः सा डेल । 3 सुकुमारेण ख । 4 नमस्ताम्मेऽन्य डेख । 5 अत एल डे । 6 विवाहि ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org