________________
७५
उच्छ्वासः]
मदनरेखा-आख्यायिका तेत्र एकत्र तावदसावनङ्गचक्रवर्ती बलात्कारेणापि मामनुलध्यशासनः प्रवर्तयति । सुदती पुनरियमन्यत्र तद्भयवैधुर्यलवमप्यज्ञातवतीव निवर्तयति । तदहो ! व्याघ्रदुस्तटीन्यायसंकटमापतितोऽस्मि किमहं करोमि ? । यद्वा वक्रोक्तिकया कयाचिदुत्साहयामीति कुविकल्पपराधीनचेतसा प्रलपितमचलेश्वरेण । कुरङ्गनेत्रे ! वृत्तभङ्गरक्षणविचक्षणे ! समाकर्णय निजवृत्तम्
केश-भ्र-भाल-नासा-श्रुति-रद-नयनास्योष्ठ-बाहु-स्तनानां
नाभीमध्योरु-जङ्घा-चरण-नखमणिश्रेणिदेहातीनाम् । प्रत्येकं केकिपिच्छाद्युपमितिपदवीहारिणां स्थानदानं
कृत्वा कस्मादकस्मादपहृतमधुना चित्तरत्नं त्वया नः ॥१५९॥ अहो ! अस्याऽसंबद्धभाषिणोऽपूर्वा काचिदबद्धमुखता, किमसाध्योऽयम् ! इति पर्यालोचयन्त्या मदनरेखया न्यगादि ।
इह निपतन्तु तुहिनकिरणादपि खदिराङ्गारवृष्टयः
स्फुटमुदयन्तु भानुबिम्बादपि तिमिरप्रकरसृष्टयः । प्लावयतु क्षमामशेषामपि ननु रत्नाकरोऽधुना
यद् भवताऽप्यनीतिरारभ्यत घटयितुमेकसाधुना ॥१६०॥ राजा तु तेन सामवचनेनाभिनवधनाघनस्तनितेनेव कृषीवलो मनसि मनागरमात्र,दश्वसिद्, अचिन्तयञ्च । सकृदपि यदि कथञ्चिदियमाननमस्मदीयमीक्षते ततोऽवश्यमनुराग
१. संकटं प्राप्तोऽस्मि, अथवा संकटे आपतितोऽस्मि ।।
२. [केशेत्यादिवृत्ते-मयूरकलापस्य केशैः, कामधनुषोः भ्रभ्याम् , पञ्चमीचन्दस्य भालेन, दीपशिखायाः नासिकया, अन्यत्तमपाशानां श्रुतिभ्याम् , कुन्दकलिकानां दन्तः, नीलोत्पलानां चक्षुर्म्यः, पूर्णचन्द्रस्य आस्येन, प्रवालखण्डानाम् ओष्ठाभ्याम् , स्वर्णवल्लयाः बाहुभ्याम् , स्वर्णकुम्भस्य स्तनाभ्याम् , समुद्रावतस्य नाभ्या, स्वर्णस्तम्भानाम् ऊरु-जडाभिः, कुर्मस्य पद्भ्याम् , पद्मरागस्य नखैः, स्वर्णस्य देहयत्या सर्वस्वमपहृतं भवत्या, शेषं स्पष्टम् ।
३. मनाग् अल्पम् । अरमात्रं शीघ्रप्रमाणम्-शीघ्र शीघ्रम् । उदश्वसित् उच्छ्वासान् अग्रहीत् ४. 'अचिन्तयच्च' अत्र 'च'शब्देन क्रियाद्वयं सूचितम्-'उदश्वसित्, अचिन्तयत्' इति ।
1 'तत्र' पदं नास्ति डे आदर्श, ख आदशैं 'तत्र' स्थाने 'ततः' इति पदम् । 2 व्यानसङ्कटदुस्तटीन्यायमा डे | 3 °णे ममाक ल। 4 'नास्फोटबाहु डे। 5 ख्यातश्रीमान् कलापप्रमुखरुचिहृतां स्थानदानं विधायास्माकं कस्मा डे । 6 त्वयेदम् डे । 7 भवताऽघनीति ख । 8 °मुदचिन्त ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org