SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता [ तृतीयः विचारधुरन्धरतया पौरजनमानन्दयति । युवराज ऐवाऽनिरुद्धजनकोपमान-पुरस्कृतधर्मदेशनयाऽऽनन्दसंपादको गुरुपदमलङ्करोति । तथापि सर्वेषामपि तेषामहमेव निखिलस्यापि भोगोपभोगस्य भाजनम् । ततश्चन्द्रमुखि ! गुरु-लघुप्रक्रियाकृतं भेदैमशेषमपि वेदान्तरहस्यज्ञेव निरस्य तस्य प्रतिपत्तियोग्यतया तमिव सेवकमपि मां द्रष्टुमर्हति महानुभावा भवती । तया पुनरहो ! वराकस्य गाढो ग्रहः ‘कथमसावस्माद् मोचयिष्यते' इति चिन्ताऽऽचिंताऽऽचान्तचित्तया अभ्यधीयत । महाभाग ! सर्वथा कूटोऽयं तवाऽऽग्रहः । उत्कीर्णोऽपि शिलातलेषु रचितः पुस्तेऽपि वैज्ञानिकै रादर्शप्रतिबिम्बितोऽपि लिखितोऽप्यालेख्यविद्भिः क्वचित् । साक्षाद् यस्तव सोदरो न लभते सोऽपि स्थितिं तद्गतां प्रत्यक्षेण विनेन्दुनेन्दुदृषदां कौतस्कुतः स्याद् रसः १ ॥१५७॥ किञ्च, गुरु-लघुभेदज्ञानं न विद्यते यस्य सर्वदा चित्ते । स विचक्षणोऽपि रक्षां न वृत्तभङ्गस्य कर्तुमलम् ॥१५८॥ . 'एवाऽनिरुद्ध०'पाठे अनिरुद्धः कामसुतः, तस्य जनकः मन्मथः, स एव उपमानं यस्यासौ अनिरुद्धजनकोपमानः तेन पुरस्कृतया देशनया इति । अयमेव भावः विशेषतः समुचितः।। ___ 'एव निरुद्ध ०'पाठे तु कोपश्च मानश्च कोप-मानौ, जनस्य कोप-मानौ जनकोपमानौ, निरुद्धौ जनकोपमानौ यस्यां देशनायां सा निरुद्धजनकोपमाना, तथा पुरस्कृतः धर्मः यस्यां सा पुरस्कृतधर्मा । ततः निरुद्धजनकोपमाना चासौ पुरस्कृतधर्मा चासौ देशना च निरुद्धजनकोपमानपुरस्कृतधर्मदेशना तया निरुद्धजनकोपमानपुरस्कृतधर्मदेशनया । २. यथा सर्वत्र एकमेव ब्रह्म मन्यमाना अभेदैकदृष्टयः वेदान्तरहस्यज्ञा गुरु-लघुभेदं न जानन्ति तथैव हे चन्द्रमुखि ! त्वमपि इदं भेदं निरस्य मां द्रष्टुमर्हसि । अत्र 'तमेव' रथाने 'तमिव' इति उचितम् । ततः तमिव युगबाहुमिव मां द्रष्टुमर्हति इति भावः । ३. चिन्तया आचितम् आचान्तं च चित्तं यस्याः तया । ४. पुस्ते शिल्पे लेप्यविधाने पुस्तके वा । “ पुस्तं शिल्पे लेप्यादिकर्मणि । पुस्तके " -है. अनेका० कां० २, श्लो० १८१, १८२]; भाषायां 'पुस्त' शब्दः प्रसिद्धः । “पुस्तं लेख्यपत्रसंघातः" [-है ० लिङ्गा० पृ० १२५, पं० २] । ५. गुरुः अस्वः द्विमात्रिकः। लघुः ह्रस्वः एकमात्रिकः। वृत्तं छन्दः । गुरुः उत्तमः गौरवशाली, लघुः अनुत्तमः लाघवशाली । वृत्तं चारित्रम् । . 1 °रहस्येव डे । 2 °चिताभ्रात(न्त)° डे । 3 पुस्तेषु विज्ञायिकै डे । 4 स्थितं तद्गतं ख, स्थितं तद्गतां ल । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy