________________
७३
उच्छ्वासः ]
मदनरेखा-आख्यायिका महाकुलीरतां कलयन्ति । भुवनविश्रुतकीर्तयोऽपि गुरुतल्पकेभ्योऽपि हीनमूर्तयो भवन्ति । सुमनसोऽपि नारकेभ्योऽपि दुर्मनायमानमनसो जायन्ते । यतः
ये सिद्धान्तसुधावितृष्णमनसो ये सद्गुरूपासना
स्नानापास्तमला निरस्तजडिमध्यानाम्बरालङ्कृताः । एकां सिद्धिवर्धू विहाय सकलाः पश्यन्ति ये योषितो
विष्ठाकोष्ठिकया समाः प्रतिकलं तेभ्यो यतिभ्यो नमः ॥१५३॥ यदि कथमपि तेषामसौ बहुमानौषधेन निरस्तस्मरापस्मारः शक्यते कर्तुं तदस्य जीविततरोरतुलं फलं भवति ।
सकलेऽपि जीवलोके तेनेहामारिघोषणोघुष्टा ।
एकमपि दुःखितं यः सत्त्वं बोधयति जिनधर्मे ॥१५४॥ इति हेतुना सा वक्तुमारभत ।
स्मर कुलममलं तथा प्रतिष्ठां जय करणानि सहामुना स्मरेण । उपचिनु सुकृतं सहैव कीर्त्या परमपरं च महोदयं लभस्व ॥१५५॥ नेत्राधःकरणं पुरोपसरण नीरङ्गिकावर्द्धनं
धर्मोऽयं कुलयोषितामभिमतो ज्येष्ठेऽन्तिकस्थे न किम् । स्मेरा कैरविणी कदाचिदुदयाद्रिस्थे दिनाधीश्वरे
. दृष्टा वा यदि वा श्रुता किमथवा केनापि संभाविता ? ॥१५६॥ इति भाषमाणायामेवास्यामवनीश्वरो जजल्प-कृशोदरि ! युवराज एव प्रबलातुलबलदलितविपक्षकुलतया प्राज्यमपि राज्यमर्जयति । युवराज एव प्रतापप्रसरप्रतिहतदुर्दान्तसामन्ताहङ्कारतया वर्यमैश्वर्यमपीदमुन्नमयति । 'युवराज एव निश्चितोपायन्यायकञ्चुकिव्यापारतया सततमक्षूणां लक्ष्मी शुद्धान्तमृगाक्षी रक्षति । युर्वैराज एव निर्विकारकारसाराचार
१. कुलीरः कुलिनम् ईरयति वा कुलीरः कर्कटः, महाकुलीरा हि महार्णवे वसन्ति । कुलीरा हि भाषायाम् 'करचला'नाम्ना जलचराः प्रसिद्धाः ।
२. "तल्पं रणमण्डपः अट्टः दाराश्च" [-है ० लि० वृ० पृ० ९८, पं० २५] अत्र गुरुतल्पकः गुरुदारगामी अथवा तवं शयनीयं, गुरुतल्पं गुरुशयनीयम् , तद्गामी । गुरुस्तु धर्मगुरुर्विद्यागुरुर्वा । अत्र 'तल्पक'स्थाने 'तल्पग' पदेन भाव्यम् ।
३. अविकलाम् सकलां समग्राम् । 'सूणं विकलता' [-लिङ्गानु० पृ. ९, पं० ५]
1 'मानमानसो (सा) डे। 2 तेनात्रामारि डे। 3 मपोहमुडे । 4 * * एतच्चिबान्तर्गतः पाठः खल आदर्शयोः नास्ति ।
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org