________________
उच्छ्वासः ] मदनरेखा-आख्यायिका कुरङ्गिकेव द्वीपिनम् , कलविक्कीव शशादनं विद्राणवदना तरलनयना स्तम्भितकाया गलितसकलच्छाया 'हा किमेतद् असमञ्जसम् अदृष्टपूर्वकम् आलोकयामि' इति संसाध्वसा 'किं सत्यमिदम् उतेन्द्रजालम्' इति सवितर्का 'किं स्वप्नदर्शनम इदम्' इति सावष्टम्भा स्मृतदूतिकाव्यतिकरौं च सत्यम् । 'अवनिपतिरेवायम्' इति जातनिश्चया सहसा समुत्थाय पर्यवतः पवनहतपताकिकेव वेपमाना दत्तपृष्ठैव विष्टेरान्तरमधितष्ठौ । राजाऽपि तादृशीं तामवलोक्य 'पाभरणा एव कुलबालिका राजन्ते किं पुनः प्रथमदर्शने ?' इति मन्यमानस्तस्मिन्नेव पर्यक्के निषसाद, सादरं च निजगाद
सुन्दरि ! साधु निर्भसिता निर्झटिता च परिव्राजिका, साधु रक्षितो मन्त्रभेदः, साधु साधितमभीष्टम् , साधु निरुद्धो जनापवादः, साधु सफलीकृतः कृतज्ञे ! समस्तोऽपि ममोपचारः। ___मदनरेखा तु तेन वचनविस्तरेण-विवरणेनेव सूत्रम्--तस्य हृदयाकूतमशेषमपि स्फुटमबोधिष्ट । नूनं यथावस्थितमिव तया तपस्विन्या ममाशयो निवेदितः, सकलोऽपि पुरस्तादस्य, परम् अनेन दैवहतकेन ‘वामः कामः' इत्यभिव्याप्तिव्यालुप्तविशुद्धबुद्धिना सर्वथा अन्यथैवावाबुध्यतेति ध्यायन्ती नीरङ्गी च द्राघयन्ती ‘न संभाषणीयः सकलोऽपि कुलवधूनां परपुरुषः किं पुनरयं दुराचारः' इति हारमिवान्तीनगुणं मौनमेव पुरश्चकार । मेदिनीपतिस्तु तथाविधां तां वीक्षमाणोऽपि सप्रणयमपास्तत्रपो व्याजहारएकेनापि पयोधरेण दधता रुद्धाम्बरामुन्नति
शीतांशुर्बहुशोऽभ्यभूयंत सदा-न-क्षत्रयुक्तोऽपि सः । १. चटका, “चरको गृहबलिभुक् कलविङ्कः कुलिङ्गकः । योषित् तु तस्य चटका" [-है० अभि० कां० ४, श्लो० ३९७ ] ।
२. श्येनः, “ श्येनः पत्री शशादनः" [- है० अभि० कां० ४, श्लो० ४००। ३. उदासीनवदना । ४. भयसहिता । ५. आसनान्तरम् , “ विष्टरः आसने" [-है० अने० कां० ३, श्लो० ६३७]
६. पा लज्जा एव आवरणम् आभूषणं यासां ताः। 'कुलबालिकाः पाभरणा एव राजन्ते' इति न्यायः । ततः प्रथमदर्शनेऽपि एषा त्रपाभरणा इति स्वाभाविकम् ।।
७. यत्र गुणा अन्तलीनाः तादृशं मौनम् । यत्र गुणाः दवरकाः अन्तर्लीना तादृशं हारम् ।
८. [आस्तां द्वयादिभिः, एकेनापि पयोधरेण मेघेन । अथ च स्तनेन दधता धारयता, काम् ? स्फीतत्वम् , पक्षे उच्चत्वम् , किंविशिष्टाम् ? रुद्धाम्बरां व्याप्ताकाशाम् , पक्षे रुद्धकञ्चुकादिवस्त्राम् , तेन शीतांशुः चन्द्रः, बहुशोऽभ्यभूयत पराभूतः । किंभूतोऽपि ? सदानेंः दातृभिः,
1 कलंविकीव खल। 2 याऽहो कि ल । 3 नमिति खल। 4 रा सत्यमेव इति जात डे। 5 तामालोक्य डे। 6 काः किं पुनः ख। 7 र्शनम् इति म डे । 8 ष्टम् साधु साधु नि खल। 9 तमेव तया डे। 10 °स्य पुनरनेन डे। 11 इत्यतिव्याप्ति खल। 12 य स तदा ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org