________________
श्रीजिनभद्रसूरिरचिता
[ तृतीयः प्रमोदयति तथा यदि राजा प्रच्छन्न विधाय रममाणा युवराज प्रमोदयामीति मदनरेखा निजकलाकौशलेनात्मनो रञ्जयन्ती जनापवादमपि रक्षितुमिच्छति। तदेतद् अषडक्षीणे एव मन्त्रे महीयसि च यत्ने सिद्धयति । मया पुनरसौ अषडक्षीणता स्वरहस्यवेदिनीं परिव्राजिकां घटयता विघटितैव मन्दमतिना, केवलं तैयैव चतुरधुराधौरेयतां धारयन्त्या षट्कर्णस्य मन्त्रस्य भेदमवश्यंभाविनमवगच्छन्त्या केनापि शुभोदर्केण सतिरस्कारमिमां निर्बाटयन्त्या विघटिताऽपि घटितप्राया वर्तते । ततो यथोचिताऽऽवजनाऽऽवर्जितसुप्रसन्नतैदासन्नदासिकाजेनस्य स्वयमेवमेतत्समीपगमनमुचितमिति कृतनिश्चयः कृताकारसंवरणस्तां दूतिकां विससर्ज ।
अन्यदा तु विपुलकालवेलाविलम्बयोग्ये क्वापि राजकार्ये नियोज्य युवराजम् , विधाय तद्गृहमपि निर्मक्षिकम् । हित्वाऽहङ्कृतिमादितः सहचरीं धृत्वाऽग्रतो मार्दवं
पश्चात्कृत्य महत्त्वमप्रतिहतं कृत्वा पुरो नीचताम् । तेजः संपदमप्यपास्य सहजा दैन्यं विधायाऽऽनने
ऽचालीत् सत्त्वगृहादसौ परवधूत्कण्ठैकवण्ठीयुतः ॥१५१॥ मदनरेखा च समापतन्तं तमेकाकिनमालोक्य करिणिकेव पञ्चाननम् , धेनुकेव शार्दूलम् ,
१. अत्र 'राजा' इति, राजते इति राट् राजा नृपः इति 'राज्' शब्दस्य तृतीयान्तं 'राजा' । राजा सह प्रच्छन्नं विधाय अर्थात् प्रच्छन्नं गुप्तं विधाय-कृत्वा राजा-राज्ञा सह रममाणा इति आशयः । .
२. षड् अक्षीणि यत्र न सन्ति तद् अषडक्षीणम् अत्यन्तगुप्तम् । यत् मन्त्र-क्रीडादिकम् एवं क्रियते येन तृतीयो जनो न जानाति, अर्थात् यत्र षड् अक्षीणि न व्याप्रियन्ते ।
३. मदनरेखया एव । ४. आवर्जनं चाटुकरणम् । ५. 'जनस्य' इति पदं राज्ञः विशेषणम् । ६. मक्षिकाणाम् अभावः निर्मक्षिकं शून्यम् इति भावः ।
७. उत्कण्ठा एव एका असाधारणा वण्ठी उत्कण्ठवण्ठी । परवध्वाः उत्कण्ठैकवण्ठी परवधूत्कण्ठैकवण्ठी तया युतः । 'वठुङ् एकचर्यायाम्' इत्यस्माद् 'व 'धातोः “इकिस्तिव् स्वरूपार्थे " [ हैम० ५।३।१३८] इत्यनेन स्वरूपार्थे 'इ'प्रत्यये 'वण्ठिः' ततः स्त्रियां ड्याम् वण्ठी एकचर्या । परवधूत्कण्ठाया एका असाधारणा वण्ठी एकचर्या, परवधूत्कण्ठैकवण्ठी तया युतः परवधूत्कण्ठैकवण्ठीयुतः ।
८. करिणी एव करिणिका-हस्तिनी ।
1 राजा प्रच्छन्नं रममाणा डे । 2 तादर्जुनाव डे। 3 'तदासन्न' पदं नास्ति डे आदर्श । 4 'श्चयात् कृ° डे। 5 धृत्वा यतो डे । 6 कृत्वा परो(रा) स्त्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org