________________
उच्छ्वासः ] मदनरेखा-आख्यायिका
सहजमपि न यत्र प्रेम नोपाधितो वा
कथमपि न मुदे स्यात् तत्र संभोगरङ्गः । स्वयमपि परिपाकं नैति यन्नापि युक्त्या
फेलमिह सहकारस्यापि तत् स्वादु नैव ॥१४८॥ स्वयमेव देवो विचारकः किमहमिह कथयितुं पारयामि। तदेतदाकर्ण्य निर्णयं करोतु।
रजनिरपि रवेरुपैति योग, सह घटते दिवसेन चन्द्रिकाऽपि ।
गुणरुचिरपि याति नीचचित्तं न च युवराजवधूः पुमांसमन्यम् ॥१४९॥ राजा तु तेन तदीयेन हितेनापि वचसा महामन्त्रेणेव कालदष्टो न किमपि चेतयते स्म । केवलं स्मरापस्मारविस्मारितात्मस्वरूपोऽपि मदनरेखायास्तिरस्कारवचनानि* पुरस्कारवचनानीति निश्चिकाय । यतः
प्रकृतिसरल: स्वान्तः शान्तः सदा विजितेन्द्रियो
विषयविमुखां यां यां चेष्टां करोति निसर्गतः । मदनजनितां तां तां वेत्ति ध्रुवं स्मरमूढधीः
सितमपि यथा पीतं शङ्ख स कामललोचनः ॥१५०॥ दध्यौ च तदानीमसौ। यथा हि-स्तन-नाभिरमणीया समुद्रतोषितपुष्टाङ्गलता न-खविक्रियापरायणा कादम्बिनी सर्वतश्छन्नाङ्गं विधाय ज्योतिश्चक्रं रममाणाऽपि प्रियतम नीलकण्ठं
१. रोगविशेषः, येन देही पुनः पुनः मूच्छितो भवति । २. निश्चयं चकार ।
३. कामलो नाम रोगः येन श्वेतादिवर्णमपि सर्व पीतं दृश्यते । कामलयुक्तं लोचनं यस्य स कामललोचनः।
४. मेघमालापक्षे स्तननं गर्जनम्, तेन अभिरमणीया । ५. समुद्रेण तोषिता पुष्टा अङ्गलता यस्याः सा मेघमाला । ६. गगनविक्रियायां न परायणा । ७. मेघमाला ।
इमान्येव विशेषणानि मदनरेखायाः । मदनरेखापक्षे स्तनौ च नाभिश्च ताभ्यां रमणीया । मुद्रया मुद्रिकया सहिता समुद्रा, तोषिता पुष्टा अङ्गलता यस्याः सा । नखैः विक्रियापरायणा । कामिन्यो हि नखैः विक्रियां कुर्वन्ति इति प्रसिद्धम् ।
८. 'रम्'धातोः अकर्मकत्वात् 'ज्योतिश्चक्रं रममाणा' इति न घटते, अतः अस्य पदस्य 'रमयमाणा' इति अर्थो बोध्यः।
1 फलमपि स डे। 2 विहारकः डे। 3 किमहं कथ खल। 4 °नि पुरस्कारवचना' इति पाठो निर्गलितः डे आदर्शे । 5 स दध्यौ डे । 6 तथाहि डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org