SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता ६८ [ तृतीयः चूडामणिः, किमपरोऽपि अश्विनीत्या जनानाममृतसिद्धियोगजनकः, किमपरोऽपि सदा संनिहितकलानिधिः, किमपरोऽपि सुमनसां गुरुः, किमपरोऽपि सुरक्षोभाविनाभूतनीतिः, किमपरोऽपि छायाप्रभवः, पर मैसौ समग्र ग्रहमयस्वरूपोऽपि निरवग्रहमहा कामग्रहगर्हिलस्तथा संवृत्तः यथा मदनरेखा स्वरूपमयेण पतिव्रताऽऽख्यानमहामन्त्रेणापि स्वरूपावस्थां लैप्स्यते वा नवेति चिन्ताचक्रारूढाऽपि समागता राजसदनम्, अनल्पविकल्पकल्लोललोलमानसमपश्यच्च राजानम् । निवेद्य च यथावस्थितं पतिव्रतास्वरूपं मदनरेखायाः, सविशेषमुवाच - अनुरागतरङ्गितेऽनुरागः क्रियतां नाम न कश्चिदत्र दोषः । समुपाययुरै। पगाः स्वयं या न समुद्रोऽपि विहातुमीश्वरस्ताः ॥ १४६॥ सकला विफलैव धीमतां या विमुखस्य किलानुवर्तना । पवनेऽभिमुखेऽप्युपस्थितेऽभिमुखा दीपशिखा किमीक्ष्यते ? ॥ १४७ ॥ १. [ अश्विन्याम् इतिः गमनं तया, जनानाममृतसिद्धियोगजनकः मङ्गलः । अश्विनोरश्विकुमारवैद्ययोः नीत्या नयेन, लोकानाम् अमृतस्य अमरत्वस्य जीवितव्यस्य सिद्धियोगः निष्पत्तिलाभस्तज्जनकः । अथ च अश्वाः सन्ति अस्याम् अश्विनी, सा चासौ नीतिश्च अश्विनीतिस्तया, अनिष्ट सिद्धिः कार्यनिष्पत्तिस्तस्याः यो योगस्तस्य जनकः । ] अश्विनीत्या अश्विनीगमनेन, इतिः गमनम्, अश्विनी नाम नक्षत्रम्, तस्याः इति अश्विनी - तिस्तया अश्विनीत्या । २. [संनिहितः कलानिधिः चन्द्रः यस्य स तथा बुधः । अन्यत्र संनिहिताः निकटवर्त्तिनः कलानिधयः कलावन्तो यस्य स तथा ।] ३. [सुमनसां देवानां गुरुः बृहस्पतिः । अथ च सुमनसां विदुषां गुरुः ज्येष्ठः ।] सुमनसां देवानां, शोभनचित्तानां वा । ४. [सुराणां देवानां क्षोभेणाविनाभूता नीतिर्यस्य स तथा शुक्रः । शोभना रक्षा यस्य स सुरक्षः, भयाप्रभया प्रतापरूपया अविनाभूता नीतिर्यस्य स तथा ।] ५. [ छायाप्रभवः शनिः । अन्यत्र छाया शोभा प्रभवत्यस्मादिति छायाप्रभवः । ] छायाप्रभवः छायासुतः शनिः । ६. असौ महाकामग्रहः समग्र ग्रहमय स्वरूपोऽपि निरवग्रहः निर्गतः अवग्रहः यस्मात् स निरवग्रहः इति विरोधः । परिहारस्तु निरवग्रहः प्रतिबन्धरहितः " गजालिके वृष्टिरोधे प्रतिबन्धेऽपि अवग्रहः । " ( है ० लि० पृ० १३, पं० ९ ) ७. नद्यः । Jain Education International O 1 नसामभिमततमः किम डे । 2 समस्तग्र खल | 3 खायाः प्रतिव्रतास्वरूपाख्यानम' खल । 4 लप्स्यसे ल । 5 'दमन' ल । 6 °तां विमुखस्यापि हि याऽनुवर्तना । परितोऽपि मरुत्यवस्थ डे | For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy