SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ तृतीय उच्छ्वासः । अथ तस्या निश्चलशीलकेत कचूर्णेन चित्तजलपङ्कं स्वस्यापास्य नृपगृहं प्रस्थितयाऽचिन्ति तदनु दूतिकया दीपे प्रज्वलितेsपि निश्चलशिखे पृष्ठेऽग्रतः पार्श्वतो रत्नालङ्करणे स्फुरत्यपि तनौ प्रौढप्रभाभासुरे । इन्दावप्युदिते खावपि निरस्ताशेषदोषोदये नैवं कापि निवर्तते हतमतेः कामार्त्तदृष्टेस्तमः ॥ १४३ ॥ दिवैव नेक्षते घूकः कैरटो नक्तमेव सः (च) | कामार्त्तः कोऽपि पापिष्ठो दिवा नक्तं च नेक्षते ॥ १४४॥ सत्यमेवेदमभिधीयते - - साक्षादारभटः स भानुतनयो' ज्ञो वा कविर्वा गुरु यद्वा तावदिनोऽपि सोऽपि यदि वा राजा कलानां निधिः । यद्वा विश्रुततेजसोऽपि मुनयस्ते सर्वलोकोत्तराः कामोल्ला सघनोदयेन परितो यावन्न रोरुध्यते ॥ १४५ ॥ अन्यथा, किमपरोऽपि कोऽपि विधैवस्तदोषान्धकारः किमपरोऽपि गिरीशमस्तक १. कतकं नाम जलशुद्धिकरं चूर्णम् । अत्र शीलमेव कतकरूपम् । २. करटः काकः । ३. [ कामोल्लास एव घनोदयोऽमेयोन्नतिस्तेन । आर एव मङ्गल एवं भटः आरभयः, अथवा आरम् अरिसमूह-प्रतिभटः आरभटः, स प्रसिद्धः, भानुतनयः शनैश्वरः । अथ च सभासु स्व-परसंसत्सु, नुतः स्तुतः, नयः नीतिर्यस्य स सभानुतनयः । ज्ञः बुधग्रहः । अथ विद्वान् कविः शुक्रः । अथ च काव्यकर्ता गुरुर्वृहस्पतिः धर्माचार्यश्च । इनः सूर्यः, स्वामी च । राजा चन्द्रः, नृपश्च । मुनयः मरीच्यादयः साधवश्च । एते सर्वेऽपि अत्यर्थे रुध्यन्ते । ] आरभटः शूरवीरः । भानुतनयः अरुणः । कविः शुक्रः कविताकुशलो विद्वान् वा । इनः सूर्यः । राजा चन्द्रः भूमिपतिर्वा । घनोदयेन मेघोदयेन । रोरुध्यते पुनः पुनः भृशं वा रुध्यते । अन्धकारं येन आदित्येन स Jain Education International , ४. [ इदमेव पुनर्भावयति — विध्वस्तं दोषायाः रजन्याः तथा । अथ च विध्वस्तं दोषा एवान्धकारं येन स तथा । ] ५. [ गिरीश : हरः, तस्य चूडामणिश्चन्द्रः | अथ मस्तक चूडामणिः गिरेः ईशः गिरीशः महादेवः । गिराम् ईशः गिरीशः विद्वान् - ज्ञानी । 1 'तदनु' पदं डे आदर्शे नास्ति । 2 यो नो वा डे । 3 रोरोध्यते ल । For Private & Personal Use Only च गिरीशाः विद्वांसः, तेषां www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy