SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः ] मदनरेखा-आख्यायिका सत्यं सुप्रियवादिता च वदने शीलं बलं चात्मनि क्ष्मापालः स कथं चलिष्यति निजान्न्याय्यात् पदात् तादृशः॥१३९॥ ये इह क्षमैकशरणं वेत्ति सदाचरणकरणपरिणामम् । * असिधारं व्रतमतुलं त्यजति कथं सैष राजऋषिः ।।१४०॥ अपि च, स्वस्था[नोन्नतिचारुयौवनघनप्रादुर्भवद्विक्रिया धारासारजकामपक्कघटनादुर्गेऽपि मागें सताम् । वंशे सत्यवलम्बने प्रतिपदाधारे सुपर्वोत्तरे भूपानां तिलकः स्खलिष्यति कथं तादृक्कुलीनक्रमः ? ।।१४१॥ ततो मुखरिके ! किमद्यापि निज मुख दर्शयसि ? किं विस्मृतिपदवीं जगाम सकलमपि निजप्रलपितम् ? किमभिलषसि फलमिदानीमेव तस्य ? इति निर्भय॑ घटचेटिकादत्तार्धचन्द्रा सतिरस्कारं निष्कासयांचक्रे । यथा कुविन्दः-तन्तुवायः पट वयति तथा चटुपटुरपि जनः-चाटुवचनवक्ता मानवः अविद्यमानेऽपि गुणगणे कीर्तिपटी वयति । १. [यो राजा क्षमायाः-पृथ्व्याः एकमद्वितीयशरणं वेत्ति-जानाति च, किम् ? रणकरणस्यसंग्रामविधानस्य, परिणाम-निर्वाहम् । ऋषिस्तु क्षमायाः-तितिक्षायाः एकमद्वितीयं शरणम्-आवासं चरणानां करणानां च जैनागमोक्तानां प्रत्येकं सप्ततिसंख्यानां परिणाम-रहस्यं वेत्ति, शेषं स्पष्टम्।] राजऋषिः -अत्र "ऋलति ह्रस्वो वा” [ १. २. २.] इत्यनेन हैमसूत्रेण ह्रस्वे कृते 'राजर्षिः' इति न भूत्वा असंधिः संजातः तेन 'राजऋषिः पदं साधु । २. [यौवनस्य स्वस्थानं मणिरथशरीरं धनस्य-मेघस्य स्वस्थान--नभः, विक्रिया-विकारः, सैव धारोपलक्षितः आसारः-वेगवद् वृष्टिं तस्माज्जातः वीनां-चातकपक्षिणां क्रियाया आधारो य आसारो यस्तस्माज्जातः । वंशे-अन्वये वेत्रयष्टौ च, पदाधारे-श्रीकरणादिपदाधारे पदं च क्रमणाधारे च । सुपर्वोत्तरे-वीवाहायुत्सवप्रधाने ग्रन्थिद्वयं मध्यमशोभनं च । कुलीनाः-कुलजास्तेषां क्रमः-अन्वयः यस्य स तथा । कौ-पृथिव्यां लीनौ क्रमौ-चरणौ यस्य स तथा । बुद्धेरौत्पत्तिक्यादीनि चत्वारि अङ्गानि युद्धस्य हस्त्यादीनि चत्वारि अङ्गानि ।। सत्यवलम्बने-सत्याः अवलम्बनभूते प्रतिपदाधारे बुद्धयाधारे सुपर्वोत्तरे-देववदुत्तमे सुपर्वाण:देवाः । काष्ठमये वंशपक्षे सत्याः-संन्यासिनीरूपायाः अवलम्बनभूते । प्रतिपदाधारे-प्रतिपदम् आधारभूते । सुपर्वोत्तरे-सुपर्व-वंशस्य गण्डिकायां यद् ग्रन्थिरूपं स्थानं तत् सुपर्व, तैः उत्तरे-उत्तमे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy