________________
श्रीजिनभद्रसूरिरचिता
· [ द्वितीयः आः पापे ! बहुप्रलापिनि ! निजशीलतरुखण्डनेन तस्य किंपाकपादपस्य वृत्ति कारयन्ती सकलानामपि शीतकल्पवल्लीनामन्तकतां मां नयसि ।
सकृदपि पुरुषान्तरेण योगो
ध्रुवमसतीध्वनिहेतवे युवत्याः । सपदि हि निनदोऽत्र घण्टिकायाः
प्रसरति ताम्ररसोपविद्धमूर्तेः ॥१३६॥ ने यतिवरोऽपि महाप्रभावनीतिं
भजति जनः स्वयं मनो न शिष्टमार्गम् । न यतिवरोऽपि महाप्रभावनीति
स्पृशति कदापि गुरावधर्मपात्रे ॥१३७॥ सविशेष विमृश्य
वाचाटे ! निर्भाग्यललाटे ! विटचेटकुलटामिव मामपि नटयितुमिच्छसि ? किञ्च, सकलमपीदमालजालमिन्द्रजालमिव तव कल्पितमेव वितर्कयामि । यस्मादसन्तमपि गुणसन्तानमावर्णयन् विगुणसार्थस्य किं न भवति धननिधानं धूर्तजनः ।।
चटुपटुरैविद्यमानेऽपि गुणगणे येन वयति कीर्तिपटीम् ।
तेन कुविन्दादधिकः स मन्यते विगुणसार्थेन ॥१३८॥ पश्य, गुर्वाज्ञामुकुटं च यस्य शिरसि त्यागोऽसि मुष्टिश्च सा
पाणौ सत्करुणा त्रपा च हृदये राज्यं प्रजाश्च क्रमे । असंबन्धम् एति-गच्छति, तण्य पुरुषस्योपलक्षणत्वात् स्त्रियोऽपि हि तेन इहामुत्रानुकूलेन सत्त्वेनप्राणिना सह योग:-संबन्धो न भविष्यतीति मणिरथसंगमो निषिद्धः । अन्यत्र यः पुरुषः राजसं रजःपदार्थनिमित्तं योगं-यमादिरूपम् एति स पश्चात् तामसं-तमोरूपं योगमेति । तस्य न हि-न च तेन प्रसिद्धन सत्त्वेन सात्त्विकभावेन सह योगो भविष्यति ।।
राजसं योगम्-राजगुणस्य योगम् , पक्षे राजसंयोगम् , राज्ञा सह संबन्धं राजसंबन्धम् । सत्त्वेन-सत्त्वगुणेन । .
१. [वरोऽपि-प्रधानोऽपि जनः, स्वमनः-निजं चित्तम् , न शिष्टमार्गम्-सज्जनपथं नयतिप्रापयति । क्व सति ? महाप्रभौ-नृपत्यादौ अनीतिं भजति सति एतावतः मणिरथेऽन्याये प्रवृत्ते प्रजाऽपि तत्र प्रवर्त्यतीत्युक्तम् । उत्तरार्धेन दृष्टान्तमाह-न-नैव, यतिवरोऽपि-सुसाधुरपि अधर्मपात्रे-पातकाधारे महाप्रभावनीतिं स्पृशति-चारित्रं पालयति इत्यर्थः ।।
२. [अविद्यमानेऽपि गुणगणे-शीलादिगुणसमूहे तन्तुसमूहे च शेषं स्पष्टम् ।]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org