SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः] मदनरेखा-आख्यायिका दोषाकरोऽपि कमलिनीबन्धुरुच्यते । प्रश्नोत्तरवृत्तप्रथमपादोऽपि त्वया कूटे कूटः पठितः, पठनीयः पुनरित्थम् सर्वस्याभिततेतरं खनिरसौ सा दुर्गतिः पृच्छति । उत्तरोऽपि(रमपि) समाकर्णय दुःखखने ! नरकगते ! राजा तव संगममभिलषति ॥१३३॥ कुत्सितचेष्टाऽलकारोऽपि नरकगतेरेव स प्रियो भवितुमर्हति । पाखण्डिचाण्डालिनि ! राजमार्गोऽयं नैराजमार्गोऽयम् अगम्यगमनाशयत्वात् । न कुंलक्रमोऽयम् नकुलक्रमोऽयं, भुजङ्गानुगतक्रियात्वात् । नास्तिकप्रकारोऽयम् नाऽऽस्तिकप्रकारोऽयं सर्वथा परलोकपक्षनिरपेक्षत्वात् । नरकमार्गदीपिके ! न षट्कर्मफलमिदम्, किन्तु तवापीह प्रवेशस्य दत्तस्य फलमिदम्अन्यथा कथमीदृशानि दुर्वाक्यानि ममापि कर्णे प्रविशन्ति । समाकर्णय तत्त्वम्स्वाधीनेऽपि पुरन्दरप्रियतमा!ख्ये निजेऽन्तःपुरे सुप्रापेऽपि जितोर्वशीलवणिमाकारे पणस्त्रीगणे । यन्मामात्मसुतामहो! रमयितुं वाञ्छत्यनङ्गान्धधी स्तन्मन्ये सरसामसौ रसवतीं हित्वा विषं काङ्क्षति ॥१३४॥ य उपैति राजसं योगमेति पश्चात् सतामसंयोगम् । योगस्तस्य भविष्यति कदापि नहि तेन सत्त्वेन ॥१३५।। १. कूटे-कैतवे कृते-कपटवृत्त्या । २. कूटः असत्यः, अयं श्लोकः १२१ (पृ० ५७) ३. [ अभिमतेतरं दुःखं खनिश्च दुर्गतिश्च पृच्छति । एतेषां पृच्छकानामुत्तरे संबोधनानि एतानि-दुःखखने, नरकगते शेषं स्पष्टम् । ] ४. [न राजमार्गोऽयं किन्तु नरेषु अजाः-छागाः निन्धपुरुषास्तेषां मार्गोऽयम् ।। हे चण्डालिनि ! त्वया सूचितः राजमार्गः नराजमार्गोऽयम्-नरा एव अजाः-बर्कराः नराजाः, तेषां मार्गः अयम् अर्थात् नर-पशूनां मार्गः । ५. [न-नैव, कुलक्रमोऽयं किन्तु नकुलस्य-बभोः क्रमोऽयं भुजङ्गस्य-सर्पस्याथ च विटस्यानुगतक्रियत्वात् । ] नकुलानां क्रमः अयम्-नकुलक्रमः भुजङ्गानुगतक्रियारूपत्वात् , भुजङ्गाः-विटा:-धूर्तपूरुषाः; नकुलपक्षे भुजङ्गाः-सर्पाः, तेषाम् अनुगतक्रियारूपत्वात् , नकुला हि यत्र भुजङ्गाः वसन्ति तत्र अनुगच्छन्ति । ६. [ न-नैवास्तिकप्रकारोऽयं किन्तु नास्तिकानां चार्वाकाणां प्रकारोऽयम् , शेषं स्पष्टम् । ] न आस्तिकप्रकारः; आस्तिकानां हि न ईदृशः प्रकारः । ७. प्रख्ये-समाने । ८. [ यः कश्चिद राज्ञः-भूपस्य, संयोगमेति-गच्छति, पश्चात् सतां-शिष्टानामसंयोगम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy