________________
६२
श्रोजिनभद्रसूरिरचिता
[ द्वितीयः अध्यापिता केनापि साधुनाऽऽस्तिकोपक्षयनिमित्तमीदृशं भणितुम् । नूनमनयाऽनुरूपया वचनरचनया सेदशनवसनदानोपकारोऽपि तावत् स्तोक एव । तस्मात् सत्यहितायास्तवेदृश्याः सत्यमीश्वरोचितोऽलङ्कारोऽधुनैव समुचित एव । .. अपि च,
यत् सकलकुशलतोन्मूलनाय घटयसि कुंशीलतामित्थम्।
तल्लोहकारकुलजा कथं परिव्राजिका त्वमसि ? ॥१३०॥ कुलममलमन(नि)न्दिता प्रतिष्ठा मतिरपि तावदखण्डितं च शीलम् ।
नहि वितरति यावदेत्य मन्त्रं विमलमतेरपि शाकिनीव दूती ॥१३१॥ किञ्च,
पात्रस्नेहमपाकरोति परितो दोषोदयेऽग्रेसरी
__ या कर्तु मलिनाञ्जनस्य घटनां दग्धुं गुणांश्च क्षमा । जाड्योच्छेदपटीयसीं तनुमपि द्वेष्टीव मैत्री सदा
सा किं दीपशिखा सखे ! नहि नहि क्षुद्रप्रिया दूतिका ॥१३२॥ परिव्राजिकापसदे ! असदाचारतत्परोऽपि प्रभुरिति परस्परं विरोधिनी वचने, किं १. सच्च शोभनं च तद् अशनम्, वसनम्-वस्त्रम् , तयोः दानेन उपकारः । २. सत्याः अहितायाः-सतीशत्रुरूपायाः। ३. ईश्वरः-महादेवः, तस्य उचितः अलंकारः, रक्षा-भस्म इति प्रसिद्धम् ।
४. कुशीलता-अनाचारः; लोहकारपक्षे 'कुशीलता' भाषायां 'कॉश्य' इति प्रसिद्धम्खननोपकरणम् । मदनरेखा कथयति या त्वं कुशीलतां घटयसि, अतः लोहकारकुलजा असि इति प्रतीयते । लोहकारा हि कुशीलतां घटयन्ति ।।
५. अस्मिन् श्लोके दूती-दीपशिखयोः साम्यं निरूपितम् । दूतीपक्षे पात्रस्नेहम्-पात्रप्रीतिम् अपाकरोति । दीपशिखापक्षे तैलपात्रगतं तैलम् अपाकरोति । दू०पक्षे दोषाणाम् उदये अग्रेसरी । दी० पक्षे दोषाया रात्रेः उदये अग्रेसरी । दू०पक्षे जनस्य घटनां मलिनां कर्तुं क्षमा । दी०पक्षे मलिनाअनस्य (मलिनम् अञ्जनं तस्य ) घटनां कर्तुं क्षमा । दू० पक्षे गुणान् सद्गुणान् दग्धं क्षमा । दी० पक्षे वर्तिकागुणान् दग्धुं क्षमा (गुण-वाटनो दोरो)। दू०पक्षे तनु-स्वशरीरं, जाडयोच्छेदपटीयसी, जाडव्यस्य-जडतायाः उच्छेदे कुशलम् इति मन्त्री-मन्यमाना तत् प्रति द्वेष्टि इव वर्तमाना । दी० पक्षे दीपशरीरं जाडव्यस्य-जडतायाः शीतस्य उच्छेदकरम् इति मन्यमाना दीपशिखा स्वशरीरं देष्टि इव-स्वशरीरमपि दहति इति भावः ।
६. 'विरोधिनी वचने' एतद् द्विवचनम् । 1 नासि को ल।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org