________________
उच्छ्वासः]
मदनरेखा-आख्यायिका इदानीं पुनरतिक्रम्य नवापि कामावस्थाः दशमीमपि समारूढपायो वर्तते । सया चास्ताचलचूलिकया दिनपताविव कलिते तत्र भूपतौ सैदाऽऽलोकपथबहिर्भूतैरसद्वृत्ताभिमतैरपलपितसाधुमार्गरुत्थापितखलोलूकपटलैर्दोषोदयलब्धप्रसरैरवरुद्धदृष्टिभिरन्धकारैखि दुराचाररपहियमाणे प्रमादनिद्राद्वारेण सकलेऽपि धार्मिकव्यापारे किं प्रवर्तिष्यते दानादीनामेकतमोऽपि कोऽपि ? तेन पार(रि)णामिकी बुद्धिमैवलम्बमाना भवतीमापातमात्राऽकार्येऽपि प्रवर्त्तयामि । यदि चात्मनः सकृत्कलकलेशक्लेशमात्रेण सकलापरपतिव्रताव्रतव्रततिसंततिसदाधारस्य यशःकुसुमपरिमलपूरितदिगन्तस्य निजप्रजारामिकानन्दकचतुर्वर्गफलनिदानस्य महाराजवरतरोरेतस्य रक्षा संपद्यते । ततः किं न संपन्नम् ? तत[:] स्तोकेन बहुरक्षणलक्षणां विचक्षणतामुररीकृत्य स्वयमेव कृत्याकृत्यविचारचतुराऽसि, परोपकारपरान्तःकरणाऽसि निजकार्यधुरा निरस्तोदराऽसि । ततः प्रवर्तस्व मदुपदेशे किं भूयो भूयः कथाविस्तरेणे[ना]त्यभिधाय निवृत्तायां तस्यां युवराजैकपत्नी सञ्जातरोषाऽपि कृतकोपोपशमा कालोचितमवोचत्
ध्रुवं विदिताऽसि कृतकवचा यतः सगुणधर्मानुगतेषु धीद्धेषु महादरमकुर्वाणेव वीक्ष्यसे । ____ अत्र श्लोके राज्ञः कामोन्मत्ततादर्शनाय पूर्वार्धमिव उत्तरार्धम् अक्षरशः समानं शब्दगोचरीकृतं ग्रन्थकृता, नात्र भिन्नार्थता ।
१. एतानि सर्वाणि तृतीयाबहुवचनान्तपदानि 'दुराचारैः' इति पदस्य विशेषणानि । अत्र दुराचाराः उपमेयाः, अन्धकाराः उपमानभूताः। अन्ध० पक्षे सदा प्रकाशमार्गबहिर्गतैः । दुरा०पक्षे सतां-सज्जनानां यः आलोकपथः तस्माद् बहिर्भूतैः । अन्ध० पक्षे असद्-अशोभनं वृत्तं चरित्रम् आचरणं तद् अभिमतम् अन्धकाराणाम् । दुरा०पक्षे असताम् असज्जनानां वृत्तंवर्तनम् तद् अभिमतं दुराचाराणाम् । अन्ध०पक्षे अपलपितः साधुः-शोभनः मार्गः यैः तैः अन्धकारैः । दुरा०पक्षे अपलपितः साधुनां सज्जनानां मार्गः यैः तैः दुराचारैः । अन्ध० पक्षे खलरूपाः उलूकाः तेषां पटलं-समूहः उत्थापितः यैः तैः अन्धकारैः । दुरा०पक्षे अत्र उलूकरूपाः खलाः दुष्टजना इति बोध्यम् , शेषं पूर्ववत् । अन्ध० पक्षे दोषोदयः-दोषायाः-उदयः-रात्र्याः, आगमनम्, तेन लब्धप्रसरैः प्राप्तावकाशैः अन्धकारैः। दुरा० पक्षे दोषोदयः दोषाणाम् असत्यानाचारादिदूषणानाम् उदयः, तेन लब्धप्रसरैः । 'अवरुद्धदृष्टिभिः ' एतत् तु उभयत्र समानम् , अन्धकारेण दृष्टिः अवरुध्यते ।
२. 'अवलम्बमाना' इति विशेषणं परिव्राजिकायाः । सा वदति यद् अहं भाविपरिणामदर्शिका भवताम् आपातमात्रे अकार्ये प्रवर्त्तयामि ।
३. [ अग्रे कृतकं-कृत्रिमं, वचः-वचनं यस्याः सा कृतकवचाः । सगुणेषु-औदार्यादिगुणसहितेषु अत एव धर्मानुगतेषु, अत एव धिया-बुद्ध्या इद्धेषु-समृद्धेषु नरेषु विषये महादरंमहागौरवम् अकुर्वाणैव वीक्ष्यसे । सतीषु शीलभ्रंशोपदेशकत्वात् । अन्यत्र कृतः कवचः सन्नाहो यस्याः सा त्वमेवंविधा सगुणं-सप्रत्यञ्च धर्म-धनुस्तदनुगतो यः इषुधिः-भस्त्रकस्तेन इद्धेषु अर्थात् सुभटेषु विषये महादरं प्रभूतभयम् अकुर्वाणैव वीक्ष्यसे । ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org