________________
६०
श्रीजिनभद्रसूरिरचिता
[द्वितीयः नियोज्यते सत्यपि यद्विचक्षणै
भॊगोपभोगेन भवाभिनन्दिता ॥१२५॥ अपि च, त्वामेकामभिवाञ्छति प्रतिपदं ध्यायत्यसौ त्वां गुणः
श्रद्धत्ते तव सङ्गमं लिखति च त्वां दर्शनोत्कण्ठया । धत्ते विक्लवतां विना च भवतीं त्वां वर्णयन् निस्त्रप
स्त्वामप्राप्य भशं प्रमाद्यति ततो वक्तीत्थमुन्मत्तधीः ॥१२६॥ साक्षादेकः कलकस्तव तुहिनरुचे ! तावदस्त्येव तस्या
वक्त्रस्पर्धाऽनुबन्धात् किमपरमधुना वाञ्छसि स्वल्पबुद्धे ! । गङ्गातीरेऽन्यथा किं शिरसि पुररिपोस्तप्यमानस्तपस्त्वं
जातोऽसि क्षीणमूर्तिः कथय कथय तत् किं कलाकौशलं ते ॥१२७॥ त्वद्भावभावितान्तःकरणः शरणं प्रपद्यमानस्त्वाम् । पुरतोऽनुवर्तयन्निव कुपितां प्रलपति सदैवेत्थम् ॥१२८॥ अनुग्रहरसं गतः सुतनुदर्पकोपक्षय
स्तवायमहितो हतो बहुविधैरतिप्रार्थनैः । अनुग्रहरसंगतः सुतनु ! दर्पकोपक्षय
स्तवायमहितो हतो बहुविधैरतिप्रार्थनैः ॥१२९॥ यत्-यस्माद् विचक्षणैः-बुद्धिमद्भिः सत्यपि सुशीलाऽपि नृपोपभोगेन सह योज्यते-संबध्यते । सुशीलत्वाद्धि नृपसंगमो दुर्लभः। अयं मदनरेखायाः प्रकटनीयोऽर्थः । अन्यस्त्वयं अनेन संभिष्यापं(१) योग मोक्षोपायं भजस्व । किंभूता ? अङ्गे-शरीरे, रागो विद्यते यस्याः सा अङ्गरागिणी नाङ्गरागिणी-शरीरनिरपेक्षा सतीव प्रसिद्धम् । महोदयं-मोक्षम् इच्छसि, यद् यस्माद् भोगोपभोगे सत्यपि भवाभिनन्दिता-संसारबहमानित्वं विचक्षणैर्न नियोज्यते नादिश्यते ।।
१. [सुतनोः-शोभनशरीरस्य, दर्पकस्य-कामस्य, हरकृत उपक्षयः-दाहरूपः । बहुविधैःअनेकप्रकारैः अतिप्रार्थनैः-कामभार्यायाचनैः हतः-गतः । पुनः कामो जीवित इत्यर्थः । कुतः सकाशात् ? अनुग्रः-अक्रोधः, हरः-महादेवः, तस्य संगतः-संगमात् गौरीवीवाहे रतितोषाय महेश्वरेण कामः पुनर्जन्म लम्भितः, अत एवासौ स्तवाय स्तुतिनिमित्तं यथा लोकः श्लाघां करोति तथा महितः-पूजितः जनैरित्यध्याहारः; इति पूर्वार्धे व्याख्यातम् । हे सुतनु ! मदनरेखे ! अत इतं पूर्वाध कामस्य पुनर्जीवनात् तवायं दर्पस्य-मानस्य, कोपस्य-क्रोधस्य, क्षयः-विनाशः, दोषमानपरिहारः अनुग्रहरसं-प्रसादसंगं गतः-प्राप्तः । कैः कृत्वा ? अभिप्रार्थनर्याञ्चातिरेकैः । किंभूतैः ? बहुविधैः । सोऽपि दर्पकोपक्षयो हतः-निवृत्तः सन् अहितः-नानुकूलोऽस्माकमिति गम्यते । तत्क्षयेन-हननेन मान-क्रोधयोः पुनः सद्भावात् स कनिष्टो मम ।]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org