SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः] मदनरेखा-आख्यायिका __ परित्याज्यो हारः पिशुन इव दूरे न रमणी गणेनास्यावश्यं कथमनुचितो बन्धनविधिः?' ॥१२२॥ नीतिकौशलशालिनि ! राजमार्गोऽयं यदात्मरुचितमेव क्रियते । कुलकमोऽयं यत्सामोपायेनैव भवतीमभिमुखयति । आस्तिकप्रकारोऽयं यत् सर्वथा समर्थोऽपि नारभते बलात्कारम् । मत्तमातङ्गगामिनि ! कोप मा कृथाः, सत्यं वक्ष्यामि । देवतार्चनादिनाऽत्युग्रपुण्यजनकेन कर्मषट्केनापि जन्मनीहैव फलितं भवत्याः, यदयं वसुधावासवस्त्वदेकशरणः संवृतः । अद्भुतरुचिरमणीगणविभूषणा त्वमसि मूर्तिरपि तस्य । सुरसदृशः सुरसदृशः भवत्याः सर्वथा योग्यः ॥१२३॥ अलं मे रूपमानेन कल्याणाङ्गे सति त्वयि । यमुक्त्वेव स्मरस्तेन सहाभूद् दृष्टयगोचरः ॥१२४॥ ___अनेन संयोगमनणरागिणी ___भजस्व चेदिच्छसि तं महोदयम् । १. अस्मिन् श्लोके शब्दयोजनाचमत्कारेण हारस्य प्रशंसा तथा गर्दा व्यज्यते-परिव्राजिकादृष्टया प्रशंसा, मदनरेखादृष्टया गर्हा-परि०पक्षे कुचेष्टालंकार:-कुचानाम् इष्टरूपः अलंकारः । मद० पक्षे कुचेष्टायाः अलंकारः । परि० पक्षे नाभिप्रेतस्थितिः-नाभिपर्यन्तं प्रेता-प्राप्ता स्थितिर्यस्य सः । मद० पक्षे न अभिप्रेता स्थितिः यस्य सः । २. [हे मदनरेखे ! अद्भुतो रुचिरो मणीगणो विभूषणं यस्याः सा तथा, त्वं तस्य मणिरथस्य मूर्तिः । किंभूता ? अद्भुतरुचिः-अद्भुतानुरागो रमणीगणो नायिकावृन्दं यस्यां सा तथा, रमणीवल्लभेत्यर्थः । व्याख्यापयति येन च-तत्र रुचिः-दीप्तिः अत एव स मणिरथः सुरैर्देवैः सदृश:-तुल्यः । भवत्या सुरसदृशः-शोभनानुरागलोचनायाः सर्वथा वल्लभेन योग्यः । ये मणिरथम् उक्त्वा स्मरः-कामस्तेन मेरुणा सहादृशोऽभूदित्यर्थः। 1 सुरः-देवः, तत्सदृशेः स राजा; सुरसा-शोभनरसा दृग-दृष्टिः यस्याः सा सुरसदृक् तस्याः सुरसदृशः । ३. [किमुक्तवेत्याह-कल्याणाङ्गे-श्रेयोऽङ्गे त्वयि सति अलं-पर्याप्तं, मे-मम, रूपमानेनरूपाहंकारेण, तथाऽलं-पर्याप्तम् अङ्गं यस्य तस्मिन् त्वयि सतीति । ] त्वयि कल्याणाङ्गे-निरामयाङ्गे सति, मे-मम, रूपमानेन अलम् इति यम्-यं प्रति उक्त्वा इव स्मरः तेनैव सह दृष्टयगोचरः-अदर्शनः अभूत् अर्थात् तस्मिन् राज्ञि स्मरस्य समावेशो जातः-राजा स्मराभिन्नः संवृत्तः । ४. [कश्चित् श्रोष्यतीति मोक्षोपायप्रकटनबाह्याथै मणिरथसंयोगमुपदिशति-अनेन मणिरथेन सह योग-संभोगम्, अनङ्गरागिणी-कामासक्ता सती भजस्व चेत् महोदयं-महादेवीपदोच्छ्रायमिच्छति । तस्माद् भो मदनरेखे ! गोपः-नृपस्तस्य भोगेन संगमेनाभिनन्दिता श्लाघिता भव-संवर्धस्व । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy