________________
श्रीजिनभद्रसूरिरचिता
किं नेच्छन्ति मुमुक्षवोऽभिकलितः कीदृक् तिवन्तो लषी प्रज्ञातोऽसि सरस्वती तदधुनैवार्यापरार्द्धाद् वदे ॥१२१॥ तदाकर्ण्य चिन्तयामास युवराजप्राणेश्वरी ।
चन्द्रमुखि ! मदनरेखे ! राजा तव सङ्गममभिलषति ।
अये ! किमिदमसमञ्जसं कपटनाटकमस्याः पापीयस्याः । भवतु वा मा, कदाचित् पूर्वमिव शीलरक्षायामपि परीक्षाकक्षां करिष्यतीति चिन्तयन्ती यावदास्ते तावत् तया प्राभृतीकृत्य समर्पितो हारः ।
मदनरेखायां तु करतललग्नं खादिराङ्गरमिव तं तिरस्कृतवत्यां पुनरुवाचकुचेष्टालङ्कारस्तरलहृदयोऽनिह्नुतगुण
५८
स्तथा नाभिप्रेतस्थितिरभिमतच्छिद्रघटनः ।
१. अस्मिन् श्लोके प्रश्नोत्तररूपयुक्तत्यन्तरेण राज्ञः अभिप्रायः परिव्राजिकया सूचित:प्र० - स्वेष्टं कः कुरुते हठादपि ?
उ०- राजा ।
प्र०—ङसा विभक्त्या युष्मत्शब्दस्य कीदृशं रूपम् इति, अर्थाद् ङसा युष्मत्पदं कीदृशम् १
उ०- तव ।
प्र० - किं नेच्छन्ति मुमुक्षवः १
[ द्वितीयः
उ०- सङ्गमम् ।
प्र० – 'अभि' कलितः - 'अभि' उपसर्गयुक्तः 'लषी 'धातुः तिवन्तः - 'ति' (तृतीयपुरुषैकवचने) कीदृशं रूपं भवति ?
• उ० – अभिलषति ।
समग्र वाक्यमेवम् - राजा तव संगमम् अभिलषति ।
प्रज्ञातः - बुद्धितः - बुद्धिवैभवापेक्षया त्वं सरस्वती असि । आर्यापरार्धात् आर्याछन्दसः अन्यस्मात्, अर्धाद् उत्तरम् अधुनैव वद ।
२. [ कुचेष्टे इत्यादिवृत्तम्, न-नैव, रमणीगणेन - स्त्रीवृन्देन हारः परित्याज्यः । कुचयोःस्तनयोः, इष्टः - अभिमतः, अलंकारः-भूषणं, तरलः, मध्यमणिहृदये - नारिहृदि यस्य हारस्य स तथा । अनिनुतः - स्वच्छतया अलुप्तो गुणा दवरको येन स तथा । नाभौ प्रकर्षेण इता - गता - प्राप्ता, स्थितिः - अवस्थानं येन स तथा । अभिमता - अभिप्रेता, छिद्रस्य वेधस्य घटना यस्य स तथा; अत एव कथं तस्य बन्धनविधिः - परिधानाचारोऽनुचितः - अयुक्तः । तस्य परिधानं युक्तमेवेत्यर्थः । न रमणीगणेन पुरुषरत्नवृन्देन पिशुनः परित्याज्यः । कुत्सिता चेष्टाऽलंकारो यस्य स तथा । तरलं- चञ्चलं हृदयं यस्य सः । निहूनुतः - अपलपितः गुणः परकृतोपकारादिर्येन सः । न-नैव, अभिप्रेता स्थितिः - अवस्थानं यस्य सः । पिशुनस्यानेकधाऽवस्थानं नान्येषा - मस्तीत्यर्थः । तथाऽभिमता छिद्रघटना परदोषग्रहणसंबन्धो यस्य सः । अत एवास्य कथं बन्धनविधिरनुचितः । पिशुनो वधनिग्रहणाय इत्यर्थः । ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org