________________
५७
उच्छ्वासः ]
मदनरेखा-आख्यायिका केवलं कथमपि यदि युवराजावस्थेव संनिहितविचित्रमन्त्रितनया भविष्यद्बहुक्षमा च दूरपरिच्छदा च भवति भवती तदा किञ्चित् पुनराख्यामीत्यभिधाय तदनुज्ञया दूरीभूरीभूते परिजने पुनरुवाच
प्रज्ञावज्ञातसमस्तकोविदे ! यद्यपि माधव इव धर्म एव जगतोऽपि ज्येष्ठस्तथापि बलभद्र इव ततोऽपि न्याय एव गरीयांस्तत्पूर्वकत्वात् तस्य, न्यायमवलम्बमानो हि यानपात्ररूढ इव नापवादमहार्णवे निमज्जति ।
तथाहि-विषमेषु सुभटसंकटगतो भगवानीश्वरोऽपि हितां नीतिवीथिकामवलम्बमानो दुर्गकनितम्बेऽभिनिविष्टदृष्टिरजायत । दक्षाध्वरविरूपचितैरनवद्यविद्यः सोऽपि न यज्ञोपक्रमेषु बहु मन्यते स्म । न हि तनयाङ्गसङ्गमेऽपि प्रजापतिर्जायते अत्र पापशब्दभाजन, पुरन्दरो निर्मूलोन्मूलिताऽहल्या शीलवल्ल्यावलिकोऽपि सर्वाङ्गे संगतनयनतामरसभाधिकं धाम जगाम । ततो गलितपौरुषोऽपि बिदलितविमलाचारोऽपि सततमवगम्य गमनप्रवृत्तोऽपि प्रभुः प्रभुरेव, नातिक्रमणीयशासनो भवति किन्तु रमणीयशासन एव । ततः समाकर्णय प्रश्नोतरमेकम् , अवधेहि हृदयं विधेहि निर्णयमिति । तद्यथा---
'पीयूषांशुमुखी प्रसूनविशिखोल्लेखा च पृच्छत्यदः
स्वेटं कः कुरुते हठादपि उसा युष्मत्पदं कीदृशम् । १. संनिहितः विचित्रः मन्त्रितो नयः अनया, ईदृशी मदनरेखा । २. भविष्यन्ती वह्वी क्षमा यस्याः सा भविष्यद्बहुक्षमा-विशेषक्षमायुक्ता ।
३. [ विषमेषु-आपदादिषु सुभटसंकटगतो भगवान् समर्थो धनी कामपि अद्भुतां नीतिवीथिकां-न्यायमार्गम् अवलम्बमानो दुर्गस्य-पर्वतादेरेकोऽद्वितीयो नितम्बकृयादिसत्राभिनिविष्टदृष्टि:साग्रहबुद्धिरजायत । दक्षाणां-कुशलानाम् , अध्वनि-मार्गे, रविरूपचित्तैः-उद्योतकारिमनोभिः, अनवद्यविद्यैः-निष्पापशास्त्रज्ञैः, सोऽपि-पूर्वोक्तविशेषणेन विशिष्टोऽपि, नयं जानन्तीति नयज्ञास्तेषूपक्रमेषु बहु मन्यते स्म । अथ च-विषमेषु:-कामस्तद्रूपः सुभटः तत्संकटगतोऽपि ईश्वरो रुद्धकामोऽपि, हितां-कामलुप्ता, नीतिवीथिकामवलम्बमानो दुर्गायाः-गौर्याः, नितम्बे-आरोहे, अभि-आभिमुख्येन निविष्टदृष्टिरजायत । दक्षाध्वरे-दक्षनाम्नः ऋषेर्यज्ञे विरूपं चित्-चेतना यस्य स ईश्वरस्तैरवद्यविद्येयोज्ञिकरित्यर्थः । यज्ञोपक्रमेषु-यज्ञारम्भेषु न बहु मन्यते स्म ।।
४. अत्र 'जायतेऽत्र' इति अकारप्रश्लेषो न कल्प्येत तदापि 'त्रपापशब्दभाजनम् । इत्यपि अर्थः सुगमः सुस्पष्टश्च ।
५. शीलस्य वलिः-अहल्यायाः शीलवल्लिः अहल्याशीलवलिः, तासाम् आवलिः, अहल्याशीलवल्लयावलिः, निर्मूलम् उन्मूलिता, अहल्याशीलबल्लयावलिकः तादृशोऽपि पुरन्दरः ।
६. [ पीयूषांशुमुखी-चन्द्रमुखी, प्रसूनविशिखः-मदनः, लेखा-रेखा च इति त्रयं पृच्छतिअनुयुङ्क्ते । पृच्छका हि उत्तरमध्ये सर्व बोधनीयाः । यथा-चन्द्रमुखि !, मदनरेखे ! शेषं स्पष्टम् । ]
1 'रोन्मूलि क । ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org