SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता [ द्वितीयः यदि हृदि भवरोगाद् विद्यते त्रासलेशो विषयसुखमपथ्यं त्यज्यतामात्मनीनः । तदखिलमपि हातुं यद्यहो! नास्ति शक्ति स्त्यजत तदपि तावत् तद्गतं स्नेहयोगम् ॥११७॥ प्रारम्भे विषया विषाश्च मधुराः प्रान्ते पुनरुणा न वापि प्रतिबन्धमेषु कुरुते विज्ञो जड़ाः कुर्वते । एतेषां प्रतिन्बधतोऽपि भवतस्तौ मृत्यु-बन्धौ यतो ' नष्टा दीपशिखामवाप्य शलभा बद्धाः कफान्मक्षिकाः ॥११८॥ न चतदपि महानुभाविकया निजचेतसि चिन्तनीयम् । यदि विषया अपि न सुखं सुखिनो नेते च विषयसुखरसिकाः । सुख-सुखिवार्तागर्तामग्ना भग्नाऽथवा चान्ये ॥११९॥ यतः सन्तोषः परमं सुखं न विषया ज्ञानं च तत्साधनं नाज्ञानं सुखिनोऽपि तद्वयरता नाज्ञा न लौल्यान्विताः । सन्तुष्टः सकलज्ञ इन्द्रमहितः सद्भूतवादी च य __ स्तस्यानुग्रहतस्तदेतदखिलं शुद्धात्मनां सिद्धयति ॥१२०॥ अहो ! जिनप्रवचनविषयं स्थर्यम् , अहो ! प्रभावनाविषयं प्रागल्भ्यम् , अहो ! भक्तिविषया व्यक्तिः, अहो ! कौशले तत्परत्वम् , अहो ! तीर्थसेवायां हेवाकः इत्यभिदधानया दुर्नयकर्णिकाकमलायमानया सानन्दं स्मेरवदनयेव व्याहतमनया-सुचारुचरिते ! सकलामलगुणग्रामाभिराँमा सकलैरपि बालकैः प्रतिपदं गीयसे, तथा मम परीक्षाकषपट्टिकायामपि नियूंढा दृश्यसे । किञ्च, मधुमत्तकोकिलकूजितादपि मधुरिमधुरया महासैद्धान्तिकनिरूपितरहस्यादपि सूक्ष्मार्थया निजमध्यादपि स्तोकया, नाटकप्रविष्टपात्रादपि प्रैस्तुतार्थान् उत्तीर्णया समुद्रादपि दुःखगाहमध्यया निजहृदयादपि प्रसन्नया, सहस्रकरोदयादपि निर्मूलितदोषया, तवानया देशनया प्रबलपवनमालयेव कादम्बिनी निरवशेषाऽपि निर्मथिता मदीया हृदयविप्रतिपत्तिः, आविष्कृतः प्रबोधाभिधो भगवांस्तरणिः ।। १. आत्मने हितम् आत्मनीनम् । आत्मनीनैः-आत्महितकरैः । २. विषः-गरलवाचकः, विषशब्दः पुंलिङ्गेऽपि । ३. प्रस्तुतचर्चाविषयकान् अर्थान् प्रति उत्तीर्णया वादेन अपराजितया । । 1 नान्या न क । 2 रामाय स क । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy