________________
उच्छ्वासः]
मदनरेखा-आख्यायिका पारलौकिकस्य महीयसः सुखातिशयस्य हेतुतां प्रतिपद्यते तत् कथमधुना विधिनोप्तमाम्रादिबीजं, सहस्रगुणतयेहापि भाविकालान्तरे स्फातीभवद् वीक्ष्यते ? हस्त-कूख्यिानमपि मुग्धवञ्चनमात्रमेव न कमप्यर्थ पुष्णाति । किं गृहतो निष्कास्य सत्क्षेत्रे निक्षिप्तं वस्तु स्वयमेव नासाद्यते ? प्राणादिमति स्वशरीरे चात्मनि सिद्धे परशरीरेऽपि सिद्ध एव प्राणादिमत्त्वाविशेषात् । यथा च तारुण्यमृते न वार्धकम्, तारुण्यमपि न शैशवेन विना, तथा शैशवमपि न पूर्वभवमन्तरेण । यतः पूर्वभवचैतन्यानुवृत्त्यैव तत्कालजातस्य अशिक्षितस्यापि स्तनन्धयस्य स्तन्याभिलाषः । ततः परलोक-परलोकिनोः सिद्धिरिति । भूतेभ्यश्चेतना स्वकपोलशिल्पिककल्पितमेव तेषामचेतनत्वात् , न चाचेतनेभ्योऽपि चेतनोत्पत्तिराशङ्कनीया, कारणानुरूपत्वात् कार्यस्य । अथोदकान्मुक्ताफलविलोकनात् कार्यानुरूपकारणवादो व्यभिचारीति न संगतमिदं, उदक-मौक्तिकयोरपि चेतनत्व-पौगलिकत्वस्य समानत्वात् । मदशक्तिरपि यद्यचेतना गुडादिभ्यः अचेतनेभ्यो जायते तत् कथमचेतनेभ्यः पृथिव्यादिभ्यश्चैतन्यमिति सर्वथा किमपि नानुरूपम् ।
देहात्मनोरपि नैकत्वं, सत्यपि देहे कदाचित् चैतन्यानुपलम्भात् । यदि वा अनयोरेकत्वं स्यात् तदा भानु-वासरयोरिवेकापायेऽन्यतरस्याप्यपायः स्यात् । उपलशकलोपन्यासोऽपि मुखरतामात्रफलतया सर्वथा वृथैव । सुख-दुःखयोरेव धर्माधर्मफलतयाऽभिमतत्वात् । 'ते च तयोरुपलशकलयोन स्त एव । तदखिलमपि प्रलापमात्रमेव तवोदितमिति ।
___ अर्थवमभिदधीथाः भवतु नामायमात्मा परलोकादयो वा न पुनरपवर्गोऽपि तस्य षष्ठभूतवदप्रामाणिकत्वात् , तदपि न वक्तव्यम् ; यथैव दुःख-दौर्भाग्याऽऽधि-व्याधि-शीतान्धकारनिशादीनामुपाये सति प्रतिद्वन्द्विनः सुखादयः सकलबाल-गोपालाङ्गनादीनामपि प्रतीतास्तथा संसारस्य प्रतिद्वन्द्विनाऽपवर्गेणापि भवितव्यमेव । उपाया अपि ज्ञानादयो विवेकिनां सुप्रतीता एव । तस्मान्मोक्षे एव तदर्थं धर्मे वा यतितव्यम् । न पुनः कामे तदर्थेऽर्थे वा । परमार्थतो दुःखरूपत्वात् कामस्य ।
कलयति विषयानपीह सौख्यं रैतिपतिरुद्धविशुद्धतत्त्वदृष्टिः । कवलितकनको यतः सुवर्ण ध्रुवमवगच्छति मिष्टलेष्टुकादि ॥११६॥
१. ते च सुख-दुःखे । २. रतिपतिना कामेन रुद्धा विशुद्धा दृष्टिर्यस्य सः ।।
३. कनकः-धत्तरकः, “कनको नागकेसरे धत्तरे" (- हैम० अने० कां० ३, श्लो० १३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org