________________
श्रीजिनभद्रसूरिरचिता
[द्वितीयः ततो जगदे जगदेकविप्रतारणरसिकया परिवाजिकया-कल्याणिनि ! परलोकसुखसाधनाय तावदैहिकसुखसाधनानि, गीत-शीताम्बु-ताम्बूल-घनसार-सुरतादीनि निजकरणाभिमतानि विमुच्यन्ते तत् पुनरज्ञानमेव पिशुनयति । को हि नाम हृदयालुः करतलकलितां सरसरसवतीमपास्य कूर्परमास्वादयति ? परलोकोऽपि कोऽपि लोकवार्तयैव न परमार्थतः, परलोकिनः सर्वथाप्यभावात् । अथ चेतनानुपपत्त्या तस्य सद्भावः संभाव्यते, तन्न; तस्याः पृथिव्यादिधर्मत्वात् । अन्यधर्मस्य चान्यस्य गमकत्वे अतिप्रसङ्गात् । न च पृथिव्यादेरेकैकस्य चेतनाऽनुपलम्भात् तत्समुदायस्यापि तदभावः । गुडादेरेकैकस्य मैदशक्तेरभावेऽपि तत्समुदायस्य मैदशक्तिदर्शनात् । अथ पृथिव्याद्यात्मकं शरीरमेवात्मा तस्य च परलोकगमनं नास्ति । अत एव परलोकिकस्य फलस्य धर्मकर्मणो निर्माणमात्मानमेव वश्चयति । तेन विषयोपभोगसौख्यमेव देवतेव संततमेवाऽऽसेवनीयं किमपरपरिकल्पनाभिः ? । धर्मप्रतिपक्षस्य अधर्मस्यापि दुर्गतिहेतोः सकलसुखप्रत्यूहनिदानस्य मनागपि न शङ्कनीयं, किं वन्ध्यासुतादपि कोऽपि बिभेति ? यदिदमुपलशकलमेकमारोप्य सिंहासने स्नपनाङ्गरागकुसुमाभरणवरवसनादिभिरभ्यर्च्यते, द्वितीयं पुनरमेध्यमूत्र-पुरीषाधःकरणादिभिस्तिरस्क्रियते, तत् किमनयोरपि धर्माधर्मफलमेव तत् न चोत्पादादयो धर्माधर्मपूर्वका इत्यपि मन्तव्यम् । जलबुबुदादीनां तत्संभवेऽपि धर्माधर्मपूर्वकत्वायोगात् । तदित्थम् आत्माऽपि न शकनीयः, कैषा बराकी परलोकशङ्का ! तयोरभावे कतमः स धर्मः ? तत् पातकं वा मृगतृष्णिकेव ।
ततो यावदियं देहे गेहे श्रीरिव चेतना।।
"श्रेयसी तावदेकैव यदृच्छाचारिता नृणाम् ॥११४॥ अनुभव विषयोपभोगलक्ष्मीं त्यज परलोकभयं तु सर्वथाऽपि ।
कतिपयदिवसे हि जीवितव्ये निजमनसः क्रियते कथं नु कष्टम् ॥११५॥ तदेतदाकर्ण्य सकर्णविज्ञानया विदधे मदनरेखया-वराकिके ! स्वयंनष्टेन परानपि नाशयता दुराचारेण केनापि विप्रतारिताऽसि, मुग्धे ! वर्तमानहिकसुखपरित्यागो नवोद्भाविनः
१. पिशुनयति-सूचयति । २. कूपरं-कफोणिम् , भाषायाम् ' कोणी ' ।
३. वार्ताय एव । वार्तम्-निस्सारम् । यत् शाश्वतः-" निस्सारारोग्ययोः वार्तम्" (-हैमलिङ्गा० पृ० ९८, पं० १२, श्लो० १८ वृ०)
४. चेतनायाः । ___ 1 परलोकोऽपि वार्त्तायैव क। 2 तदनुभावः क। 3 मदनशक्तः क। 4 मदनशक्तिक। 5 त्वयोगात् ल । 6 श्रियसी क।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org