________________
उच्छ्वासः]
मदनरेखा-आख्यायिका मोदमानस्तदेव निजाभिमतमभिधाय प्रदत्तपारितोषिकां, परिव्राजिकां विससर्ज । साऽपि परितुष्टमानसा-देव ! सिद्धमेवेदं तवाभिमतमित्यभिधाना जगाम युवराजधाम ।
यथोचितपरिहितधौतपवित्रवस्त्रायाः सर्वथा प्रतिषिद्धमनो-वाक्-कायशस्त्रायाः, समयानुरूपनिर्वर्तितवीतरागप्रतिमार्चायाः, सह समानधार्मिकसध्रीचीजनेन प्रस्तुतप्रवचनचर्चायास्तस्या मदनरेखाया निवेद्य तदाज्ञयैव प्रतीहारिकया प्रवेशिता निवेशिता चानुरूपस्थाने । सौ परिव्राजिका वक्तुमारभत
दोषोपशान्तये बुद्धिं स्वामिनीकृत्य तत्परा । द्विधा पत्याऽन्विता नन्द्यात् स्वामिनी कृत्यतत्परा ॥१११॥ घनसाराऽगुर्वामोदसुभगमक्षतविशुद्धिरमणीयम् ।
कुसुमेषु-भ्रमरहितं जिनार्चन जितमनोऽस्तु मुदे ॥११२।। किमद्य निरवद्यसारपूजोपचारनिमित्तम् ? इत्यभिधाय विरतायां तस्यां मदनरेखा जगादननु प्रतिवासरमेव निजवपुष इव विभूषया वीतरागस्य शुश्रूषया निजनेपथ्यानामिवाधिवासनया सुगुरूपदेशपर्युपासनया निजाङ्गरागस्येव रचनाप्रकारेण स्वाध्यायसमाचारेण स्वस्येव प्रतिष्ठाभिः करणसंयमनिष्ठाभिः, परिजनस्येव पुरस्कारेण तपोविधानस्य संस्कारेण निजापत्यस्येव लालनेन निर्निदानदानविधिपालनेन त्रिसन्ध्यमप्यवन्ध्यमेवास्माकम् ।
यतो गृहवासपाशपरवशान्तःकरणानामपि चतुरचेतसां गृहमेधिनामिदमेव पूजादिकर्म शिवशर्मणे । तथा चेदमभिधीयते
यद्देवार्चनमुज्ज्वलेन मनसा यत्सद्गुरूपासनं
यत्स्वाध्यायकथा निरस्तविकथा श्रद्धाऽपि यत्संयमे । यच्छक्त्या तपसो विधिः सुविधिना यद्दानलीलायितं
षट्कर्मेदमुदाहरन्ति गृहिणां दुष्कर्मनिर्मूलनम् ॥११३।। १. दोषोपेत्याद्यार्या-दोषोपशान्ताय रजनीक्षयाय दोषक्षयाय वा स्वां निजां बुद्धिं इनीकृत्य आदित्यीकृत्य तत्परा बुद्धिप्रधाना । उत्तरार्धे-कृत्यतत्परा करणीयनिष्ठा स्वामिनी मदनरेखा नन्द्यात् । अपत्येन अन्विता युक्ता, पत्या भ; च अन्विता-युक्ता सतीति द्विधापत्यान्विता । अथ च द्विधा युगबाहु-मणिरथाभ्यां पतिभ्यामिति कौटिल्याद् द्विधापत्यान्वितेत्युक्तम् ।।
स्वाम् इनीकृत्य स्वां बुद्धिम् इनीकृत्य-ईशीकृत्य-स्वामिरूपां कृत्वा अर्थात् स्वां बुद्धिं प्रधानां कृत्वा । द्विधापत्याऽन्विता द्विप्रकारेण पत्या अन्विता-अत्र 'पति'शब्देन एकः पतिरूपोऽर्थः बोध्यः, अन्यः जिनपतिरूपोऽर्थः बोध्यः, अर्थात् पतिः-देहपतिः, जिनपतिः-आत्मपतिः अथवा धर्मपतिः ।
२. कुसुमेषु भ्रमरहितं, पुष्पेषु भ्रमराणां हितरूपम् । अथवा कुसुमेषुभ्रमरहितम् इत्येवम् अखण्डं पदम्, ततः कामदेवभ्रमरहितम्-कामदेवभ्रान्तिवर्जितम् । ____1 ‘जने प्रस्तुत ल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org