________________
५२ श्रीजिनभद्रसूरिरचिता
[द्वितीयः तेषां विप्रतिपत्तयोऽपरिमितास्तर्कोऽप्रतिष्ठो यत--
स्तैत्त[त्तत्त्वकथा वृथा तदथवा स्वस्मै यदिष्टं नृणाम् ॥१०३।। स्वर्गापवर्गयोर्वार्ता वार्तेव परमार्थतः । साभ्यां न कश्चिदायातो दृश्यते श्रयते न च ॥१०४॥ धर्मों वा यदि वा मोक्षः कल्पना धैर्त्तवृत्तये । काम एव परं तत्त्वं तदर्थोऽर्थोऽपि नापरम् ॥१०५॥ साक्षादनुभवेनापि कामार्थी सुपरिस्फुटौ । तौ न स्तो धर्म-मोक्षौ स्तो य आहुस्ते स्युरास्तिकाः ॥१०६॥ अस्माकं दीयतां स्वर्गो मोक्षो वा वो भविष्यति ।
इत्याख्यायास्तिकंमन्यैः श्रद्धालुभक्ष्यते हहा !! ॥१०७॥ तत् सत्यं च हितं च सारमपि ते वच्मि स्फुटं श्रयतां
देवः पञ्चशरः परं तदनुगाश्चार्वाकदूत्यो गुरुः । शब्दाद्या विषयास्तु तत्त्वमथवा तत्कारणं योषित
. स्तत्संयोगजसौख्यमेव च शिवं शेषो विचारो वृथा ॥१०८॥ गम्यागम्यविचारणा जडधियामेवाङ्गनागोचरा ।
सामर्थ्य सति यैव मानसमुदे यस्येह गम्याऽस्य सा । पुण्यं नास्ति न चास्ति पातकमपि स्वेच्छाविघातो यतो
मूढरास्तिकनामकैर्यदुदिते स्वेच्छैव तत्त्वं ततः ॥१०९॥ राजा पुनरिदमाकर्ण्य जातचमत्कारो बभूव । उचितमनुचितं वा तत्त्वमिष्टं तदेव
स्वहृदि यदिह तोष पोषयत्यङ्गभाजाम् । कुमुदवनममन्दं येन दोषाकरेऽपि
प्रथयति परितोषं नैव मित्रोदयेऽपि ॥११०॥ अहो ! निरस्तसमस्तमतान्तराभिप्रायसारस्तव तत्त्वविचारः प्रतिष्ठितमकरकेतुविलासः सकलोऽपि युक्तिविन्यासः सहृदयहृदयाभिप्रायाभरणशरणं सर्वमुपन्यासकरणं, तदेवमनु
१. [ वार्ता वार्तंव न किञ्चिदित्यर्थः।। २. धूर्तवृत्तये धूर्तानां वर्तनाय, तदर्थः कामायैव योऽर्थो धनं तदेव तत्त्वं तदपरमन्यन्नेति ।। ३. [ उचितेत्यादिवृत्तेः-दोषाकरो दोषनिधेर्मित्रं सुहृत्, अथ च चन्द्रादित्यौ ।। ४. [शेषं परिव्राजिका वक्तुमारभतेऽत्यन्तं स्वयमभ्यूह्यम् ।।
1 °स्तत्तत्त्वक कल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org