________________
उच्छ्वासः ] मदनरेखा-आख्यायिका या लावण्यपदं समुद्रतनया या गीर्गुणैः शारदा
याः प्रीत्या रतयोऽपि याः किल सुधा बिम्बाधरास्वादतः । सन्तापप्रशमेन यास्त्रिपथगाः याः सर्वदाऽऽमोदतो
मञ्जयः सुरपादपस्य बनितास्ताः तस्य हालाहलम् ॥१०१॥ इति ईर्ण्ययेव निशीथेऽपि निद्रायां क्षणमपि लोचनगोचरमनापतन्त्यामेव विभातं विभावर्या । तदङ्गदाहेनेव मकरकेतनान्मकराकरादुल्लसितमहिमकरमण्डलेन, तन्मनोरणरणकेनेव सर्वतोऽपि प्रज्वलितमर्कोपलपटलेन तदाननेनेव संकुचितं कुमुदकाननेन । तल्लोचननिमीलिकयेव मिलितं रथाङ्गयुगलिकया, तन्मनोरथैरिव प्रधावितमाकुलाकुलैः काकोलकुलैः ।
___ इतश्च परमोन्निद्रतादिविशिष्टचेष्टास्पष्टितविदितहृदयाकूतया कयाचित् शय्यापालिकया रहसीति स राजा विज्ञपयांचक्रे । तद्यथा
दुर्घटमपि घटयति सुघटघटनवद् विकटकपटघटनाभिः ।
विघटयति सुघटमपि कूटघटितवद् दैवमिव दूती ॥१०२।। ततो यदि देवस्य रहस्यमप्रकाश्यमस्ति ततः संपादयामि तत्साधनसमर्थबुद्धिधनसंपन्नां तामहम् । तदाकर्ण्य तदभिप्रायपरिज्ञानचमत्कृतचेतसा निगदितमनेन, अहो ते बुद्धिकौशलं, अहो! ते स्वामिकार्यच्छलं, अहो! ते साहाय्यबलं, तदविलम्बमेव समर्थय निजमन्त्रितमिदम् , येन निजाभिमतसिद्धिमिव भवतीं तामपि कृतार्थयामीति । तया पुनस्तदानीमेव समानीय संचारिणीव चार्वाकविद्या, हिंसेव प्रकटितबहुधाऽवद्या, समस्तदुर्नयगोकुलवजिका रहसि संपादितैका परिव्राजिका निवेशिता च, यथोचितस्थाने । लभस्व निजाभिमतमिति दत्ताशीर्वादा च प्रक(?ज)ल्पितुं प्रवृत्ता, तद्यथा
कृत्याकृत्यनिरूपणाय चतुरैश्चित्रा व्यवस्थाः कृताः
__शास्त्रेषु प्रथितानि तानि शतशो भिन्नान्यभिप्रायतः । १. यः सुगन्धः बहु दूरं प्रसरणशीलः स आमोदः । २. काकोल:-वृद्धकाकः। “वनाश्रयश्च काकोलः” (-अभि. चिं. कां० ४, श्लो० ३८९)
३. व्यवस्थावर्णादिविभागेन आचारस्थापनाराजोपरिकाऽमात्याङ्गरक्षकादिका. तानि त्याकृत्यानि । अभिप्रायतो दर्शनिनां भिन्नानि-नानारूपाणि अहिंसादीनि तेषां स्थापकः तर्कः-प्रमाणशास्त्रम् अप्रतिष्ठः सामर्थ्यस्याप्यानैकान्तिकः । तत्त्वस्य कृत्याकृत्यादिपरमार्थस्य तत् तस्मात् तत् तत्त्वं यत् स्वस्येष्टं तदेव ।] .
1 हालाहलः डे । 2 अत एवेर्ण्य कल । 3 °नयमलि° कल । 4 °याकूलया क । 5 विघटक कल। 6 तमिव दैववदूती डे । 7 °यामि । तया ल। 8 डे आदर्श ६, ७, ८, अङ्कितपत्राणां नष्टत्वात् केवलं क आदर्शस्यैवायं पाठः । 9 प्रगलितुं ल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org