SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता [द्वितीयः नवयुवत्यामिव रैचिरमारहितायां, साधुसंसदीव सैच्चक्रवाक्यजनितानन्दायां, द्यूतकारप्रकृताविव नालीकमुखमुद्राचतुरायां, पिशुनसंगताविव सैंदोषधीहितायां सन्ध्यायां निजगदे केनापि वैतालिकेन नृपानुरूपं रूपकमिदम् , यदुत इन्दोः कलत्रमनुकूलयितुं त्रियामां __ सन्ध्या दिनेशितुरियं ध्रुवमेव दूती । नो चेद् विलम्ब्य किमुडप्रकरच्छलेन ___ मुक्तास्तनोति वरहारलताकृतेऽस्याः ? ॥१.००॥ तदेतदाकर्ण्य चिन्तितमनेन सा तावत् सुधांशुवदना संदनादरपराऽपि, न सँदनादरपरा, वंदनादरोद्यताऽपि, न मदनादरोद्यता, कथमन्यथाऽस्माकमुपचारं उदारं हारमिव निर्विचारमेव वरतरलाभोपचितचित्तकुतूहला प्रतिपद्येत । न खलु प्रणयपरिचयातिशयमन्तरेण कुरङ्गेक्षणदक्षिणापि परपुरुषोपचारनामाऽपि सहते किं पुनरियं मुग्धलोचना ? केवलमात्मनो हृदयाभिप्रायप्रकटनमभिमतमपि मनसो वचसो विषयमानेतुमनीश्वरा एव कुलबालिका विराजन्ते । न खलु चन्द्रकान्तमणयोऽप्यन्तर्गतममृतं सुधाकरचन्द्रिकाव्यतिकरमन्तरेण क्वचिदपि प्रकाशयन्ति। ततो यदि काचिदुदारसारवचनव्यापारचतुरा दुरापपरहृदयविदुरा, यथासमयानुरूपविचारचारसूत्रिका संपद्यते दूतिका, तदिदमनायासेनैव देवमपि निरस्य ममेष्टमचिरादेव सिद्धयतीति मदनरेखाविषयतत्त्वचिन्ताचिताचान्तचेतोवृत्तेरविहितस्वहितसन्ध्यासमयसमुचितपूज्यसपर्याप्रवृतेरेनादृतसेवायातसामन्तचक्रस्य सहजानुरक्तभक्तशुद्धशुद्धान्तवधूचक्रस्य - १. रुचिरः-सुन्दरः, मारः-कामः, तदर्थ-हितायै । २. सतां चक्रं-सच्चक्रम् , तस्य वाक्यं सच्चक्रवाक्यं, सच्चक्रवाक्येन जनितः आनन्दः यस्यां तस्यां सच्चक्रवाक्यजनितानन्दायां साधुसंसदि । साधुः-सज्जनः । ३. नालीकं-यूतक्रीडायाः उपकरणम् । ४. दोषसहितायाः धियः हितायाम् । ५. वरहारलतानिमित्तम् । ६. सदन-गृहम्, तदादरपरा अर्थात् स्वगृहम् एव निवासादरपरा न बहिः आगच्छति । ७. सन्-विद्यमानः शुभो वा यः अनादरः तस्मिन् न, परा-परायणा, अर्थात् न आदरपरामम अनादरं न करोति । ८. वदनेन वचनेन आदरोद्यता । ९. अनादृतं सेवायाम् आयातं सामन्तचक्रं येन तस्य-सेवाप्राप्तसामन्तचक्रविषये अनादरकारकस्य । 1 °वदुत्सुकं सुव डे । 2 °चित्तवृत्तिकु डे। 3 °क्षणा दक्षेणा डे। 4 'नीशा एव डे। 5 °विचारसू कल । 6 'दैवमपि' इति पदं डे आदर्श नास्ति । 7 हितहित कल । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy