________________
उच्छ्वासः ] मदनरेखा-आख्यायिका महामोहमहीपतिश्रीकरणानि, विनिवारितविरतिकुमारिकावेरणानि, शरीरसौन्दर्यभरणानि, विचित्ररत्नसंरणानि विविधालङ्करणानि च, समर्पयता पुण्यमिवात्मनस्तेनोन्मूलितं कार्पण्यं, पैरमानार्यकार्यमिव प्रतिष्ठितमौदार्य, अपारसंसारकारस्करप्रकरदौहृदमिब प्रकाशितं सौहृदं, विकटपापकुटीसंघटनमूल्यमिव निवेदितमात्मानुकूल्यं, दुराचारसारवित्तमिव समर्पित निजचिंत्त, किं बहुना ? यदभिमतमतीव कामिनीनां, यदिह महार्घतमं देवलोके तदखिलमपि स स्मरकचित्तः प्रतिदिनमर्पयति स्म भूधवोऽस्यै ।
सा जग्राह समग्रमेव विशदस्वान्ता विनैव ग्रेहं
दुष्टेनापि समापिपत् स मनसा यद् द्वारपाल्यादिभिः । गृह्णात्येव यदृच्छया कुमुदिनी दत्तां श्रियं चन्द्रिका
द्वारा पश्यत दुग्धमुग्धहृदया दोषाकरेणापि हि ॥९७॥ न कपटघटनामृजुस्वभावा मनसि मनागपि तद्वतां विदन्ति ।
कलयति हि गतिं भुजङ्गमानां जगति भुजङ्गम एव तत्त्ववृत्त्या ॥९८॥ केवलं शरदिन्दुकुन्दविशदनिजहृदया अनुमानेनैतदेव विभावयति स्म
नूनं मामयमात्मजां कलयति ज्येष्ठो गरिष्ठो गुणे____नों चेदद्भुतवस्तुभिर्जनकवत् पुष्णाति किं सादरः । यद्वाऽहं निजसोदरप्रियवधूस्तेनाधिकं वल्लभा
ज्येष्ठस्यंव विधेयमेतदथवा सर्व सतां वेश्मसु ॥९९॥ अन्येधुरहिंसायामिव जनतापापहारिकायां, सरसकवितायामिव सभानुरागकलितायां, १. वरणानि-स्वीकरणानि ।।
२. सरणानि-अत्र 'शरणानि' इति उचितम् । शरणं-गृहम् । 'विचित्ररत्नगृहाणि' इत्येवं 'विविधालंकरणानि' इत्यस्य विशेषणं सुघटम् । संस्कृतभाषायाम्-'सरण 'शब्दः किड(लोढानो कोट )वाचकः कोशे निर्दिष्टः, परम् अत्र स न घटते ।
३. परमम् अनार्यम् इति 'कार्य 'स्य विशेषणम् ।
४. कारस्करः-वृक्षः । “क्षितिरुहः कारस्करो विष्टरः " (-अभि० चि० कां० ४, श्लो० १८०)
५. ग्रहम्-आग्रहम् । ६. भुजङ्गमाः-विद्यः-खलाः, धूर्ताः ।
७. जनतायाः पापस्य हारिकायाम् अथवा जनानां तापस्य अपहारिकायाम् । ___ 1 °मिवात्मानोन्मू' कल । 2 मं सदैव डे । 3 समर्पयत् क ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org