________________
४८
श्रीजिनभद्रसूरिरचिता
[द्वितीयः यद्वा संमुखयामि चारुचरितां तां त्यागलीलायितै
देवः काष्ठमयोऽपि जल्पति ततोऽस्त्येवेति गीौकिकी ॥९५॥ यदूरस्थमतीव दुर्गमतमं कामं भृशं दुर्लभ
तते त्यागान्न समीपमेव सुगमं सुप्रापमप्यङ्गिनाम् । येनैषा भैमरालिकाऽम्बरचरी दुर्गारविंन्दालया
दानादेव कपोलचुम्बनपरा मातङ्गमप्यञ्चति ॥९६॥ ततः प्रभृति च संभोगरङ्गसहकारैकमूलानि, प्रशमदमसंयमैकशूलानि, वदनारविन्दभूषणानुकूलानि, निर्विकारतालताप्रतिकूलानि, शङ्गारसारख्यापारवेषविशेषदुकूलानि, पैञ्च सौगन्धिकानि ताम्बूलानि प्रतिष्ठितसुवर्णवर्णोपमानि, सकलाङ्गरागपरभागललामानि, रमणीगणहृदयाभिमतसंगमानि, समूलोन्मूलितकरणसंयमानि जात्यानि कुङ्कुमानि, पुरस्कृतसारघनसारैतूलिकाः, समुच्छ्वासितनासापुटानन्दसंपत्तिपूरिकाः, विरतिकल्पलतासँभल्लासोरुलूरिकाः, मैदनाङ्गनागल्लमसूरिकाः कस्तूरिकाः, दुर्वाररप्रसरविकारशरनिकरभस्त्राणि, जितयतित्याजिततपोदिव्यास्त्राणि, महादर्पकन्दर्पसुभटशस्त्राणि, दुकूलादीनि दिव्यवस्त्राणि,
१. काष्ठनिर्मिता देवमूर्तिः ।
२. भ्रमरी या अम्बरचरी-गगनगामिनी साऽपि दानात्-मदजलात् , मातङ्ग-हस्तिनम् अपि, अञ्चति-गच्छति ।
३. करणानि-इन्द्रियाणि ।
४. पुरस्कृतः सारः-घनसारः यस्यां सा पुरस्कृतघनसारा सा चासौ तूलिका पुरस्कृतसारघनसारतूलिका, “तूलिका तूलशय्या" (-हैम-अने० कां० ३, श्लो० ४९) भाषायां 'तळाई' इति प्रसिद्धम् ।
५. 'उल्लूरिका 'शब्दस्य व्युत्पत्तिः एवंविधा-संस्कृतभाषायाम्-छेदनार्थः उत्पूर्वकः 'लू'धातुः ( उल्लू) प्रसिद्धः, तस्य तु 'उल्लविका' इति रूपं स्यात् , संस्कृतवत् प्राकृतभाषायाम्'उल्लू 'धातोः समानार्थः 'उल्लूर 'धातुः प्रसिद्धः, ततः कर्तरि 'अक' प्रत्यये स्त्रीलिङ्गे 'उल्लूर + अक+ आ = उल्लूरिका इति सिद्धम् । उल्लूरिका-छेदिका इति । द्रष्टव्य हैमं सूत्रम्-८।४।११६।
६. 'गल्लमसूरिका'शब्दोऽपि संस्कृतभाषायां न प्रसिद्धः प्रचलितो वा। यद्यपि 'गल्ल'शब्दं निर्दिशति आचार्यो हेमचन्द्रः "स्याद् गल्लः सूक्कणः परः" (-अभि० चिं० कां०३, श्लो० २४६ )। प्राकृतभाषायाम् ‘गल्लमसूरिया 'शब्दः प्रतीतः शय्यावर्णनप्रसङ्गे व्यापृतश्च । तस्य 'मसूरिया 'अंशस्य 'मसूरिका' इति संस्कृत्य अनुकरणम् । 'गल्लमसूरिका 'पदेन भाषायां प्रसिद्धस्य 'गल्लमसूरिया' नामकस्य उपधानरूपोकरणस्य अत्र ग्रहणम् ।
1 स्यात् त्यागात् तदुप्रान्त्यवति सुकल। 2 'पञ्चसौगन्धिका नि ताम्बूलानि' इति पाठः डे आदर्श निर्गलितः। 3 रमूरिकाः डे। 4 'मदनाङ्गरागमलम, इति पाठो निर्गलितः डे आदर्श ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org