________________
उच्छवासः]
मदनरेखा-आख्यायिका तेषु श्रीकरणाभिरामविषयग्रामेष्वनास्थापरः
प्रोद्दामा रतिरेव वैभवसुखे त्यक्तस्पृहो विग्रहे । अस्थानेऽप्यलमक्षमारहिततां धत्ते स्म यद्यप्यसौ
. भूपालस्तदपीष्टयोगघटनां न प्राप निर्वाणदाम् ॥९२॥ किञ्च,
मैत्री तेषु मनोरथेषु सततं येषां प्रियकैव सा
यच्चित्तं स्मृतिगोचरं नयति तां तत्र प्रमोदोदयः । दृष्ट्वा तां न ददर्श दृष्टिरपि या तां प्रत्यनुक्रोशवान् ___ माध्यस्थ्य क्वचिदेव नास्य यदिदं कामान्धबुद्धौ कुतः ? ॥९३॥ रजनिरियमुदारता राकेन्दुर्दिनमिदमुष्णकराऽस्तदोषमेवम् ।
न स किमपि विवेद खेदचित्तः स्मरविषमज्वरवेदनातचित्तः ॥९४॥ ततश्च कथं नाम कामगेहिनीतोऽपि नाधिकत्वं बिभर्ति, यतो मारोऽपि तामपहाय गृहीतचापयष्टेरेनामेवानुगच्छति । प्रतिहन्ति चापरं पश्यन्तमपि । ततोऽस्या एव विहितविभ्रमभ्रमरानन्दं नयनारविन्द, अस्या एव स्मराध्वरयूपानुरूपं रूपं, अस्या एव निरस्तपद्मालयाभाग्य सौभाग्य, अस्या एव प्रतिहतपुरन्दरप्रियाहङ्कारः शृङ्गारः, किमपरं सकलमप्यस्या एव विचेष्टितं सारं, तरुणजनमनःकुरुङ्गसंयमनवागुराऽऽकार, कथमियं विलासरङ्गशाला, मम बाला भविष्यत्यनुकूलेति नि चिन्ताऽऽकूताभ्यां सूत्रधाराभ्यां सूत्रयामास तानिमानुपायविकल्पप्रकारानिति--
किं गत्वा स्वयमेव सेवक इव प्रस्तावतः प्रार्थये
दूंतीसूक्तिमुखेन वा घटनया विज्ञापयामि स्फुटम् । १. अलं-पर्याप्तम्-पर्याप्तया । अक्षः-आत्मा तस्य मारः-विनाशः तस्य हिततांहितभावरूपां वृत्तिं दधानः अर्थात् अयं कामान्धो नृपः अस्थानेऽपि पर्याप्तभावेन स्वात्मनाशकरी वृत्तिं दधाति ।
२. अयं कामान्धो नृपः स्वमनोरथसमानमनोरथेषु मैत्रीवृत्तिं धत्ते । यो जनः तच्चित्तं तत्प्रियां प्रति नयति तत्र प्रमोदवृत्तिं धत्ते । यस्तु प्रियां दृष्ट्वाऽपि तां प्रति पुनर्न दृष्टिं दधाति तं प्रति अनुक्रोशवृत्ति-कारुण्यवृत्तिं धत्ते । अस्य न क्वापि माध्यस्थ्यम् , कामान्धबुद्धौ तु माध्यस्थ्यं कुतः संभवि ?।
३. चिन्ता-प्रसिद्धा, आकृत-मनोऽभिप्रायः, ताभ्याम् । 1 'रिवमुदा डे। 2 यष्टिरे° डे । 3 निजचित्ताकू डे । 4 दूतिव्यक्ति' डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org