________________
श्रीजिनभद्रसूरिरचिता
[द्वितीयः प्रस्थितं लज्जया, प्रतिहतसहृदयहृदयसंतापकापवादयाऽपि विगलितं मर्यादया, त्रिभुवनभवनधवलननिष्ठयाऽपि सङ्कुचितं यशःप्रतिष्ठया, निर्दलितदुर्वारप्रसरान्तरङ्गारिषड्वर्गपराक्रमेण नष्टं कुलक्रमेण, भविष्यदपकीर्तिपाणिपीडनगणकेनेव पुरोभूतं रैणरणकेन, प्रदीपितानुरागसमिद्व्यतिकरण समासन्नीभूतं दुरध्यवसायवैश्वानरेण, समर्पितविचित्रचिन्तालाजाञ्जलिसर्गेण समुल्लसितं दुर्नीतिसखीवर्गेण, सकलमपि राज्यधर्ममपहाय प्रतिदिनं समारुह्य प्रासादोपरिभूमिकायां व्यापारयति तत्र गवाक्षे नयनानि न पुनर्निद्राभावतः शय्यापालिकां विरचयितुं शयनानि । तस्याः कृशोदर्या हृदयदरीमध्यमधिवस्तुमिव प्रतिक्षणं क्षपयंस्तनुं नयति तानवं, न पुनः शोषमुद्दामखेदार्णवम् , अंत एवं तामेव देवतामिव मन्यमानो' मुनिरिव विषयव्यामोहविलुप्तचेतनः स भूपतिरवधीरयांचकार पुण्यमिव पाड्गुण्य, विस्मारयामास सदभ्यस्तमपि शास्त्रमिव शस्त्रं, न च हृदयचक्षुषाऽपि, विलोकयांचकार तपोबलमिव दैलितप्रबलारिकुलं चतुरङ्गबलं, न विगणयांबभूव दीक्षामिव निर्वृतिवधूसंपादनबद्धकक्षा महामात्यशिक्षा, न च विद्यामिवानवद्यामपि कामपि शुद्धान्तवर्धू मानयांचकार । ततश्च न केवलं धर्म-मोक्षाभ्याम् अर्थ-कामाभ्यामपि स वनीभ्रस्यते स्म । तथापि
___१. गणकः-मुहूर्तवेदी ज्योतिषिकः । पाणिपीडने-विवाहप्रसङ्गे हि गणकः पुरोभवतिअग्रेसरो भवति ।
२. उत्कण्ठा-औत्सुक्यम् । ३. प्रदीपितः-प्रज्वलितः ।
४. समिद् इति होमेन्धनम् । व्यतिकरः संबन्धः। वैश्वानरः-अग्निः स चात्र दुरध्यवसायःदुष्टो विचारः ।
५. अपकीर्तिपाणिपीडने अत्र विचित्रचिन्तारूपो लाजाञ्जलिः, एतत्समर्पकश्चात्र दुष्टनीतिरूपः सखीवर्गः ।
६. "सन्धि-विग्रह-यानान्यासन-द्वैधा-ऽऽश्रया अपि षड्गुणाः" (-अभि.चिं. कां० ३, श्लो० ३९९) । सन्धिः -एकत्वम् । विग्रहः-स्वस्थानात् परमण्डले दाहविलोपादि । यानंयातव्यं प्रति यात्रा । आसनम्-विग्रहादिनिवृत्तिः । द्वैधम्-एकेन संधाय, अन्यत्र यात्रा, अथवा बलवतोद्विषतोः मध्ये द्वैधीभावेन वर्तन यात्रा अन्यद् विचारेण अन्यद् इति द्वैधम् । अशक्या वलवतः आश्रयः, इत्येवं राजनीतेः षड्गुणाः । षड्गुणानां भावः षाड्गुण्यम् अथवा शम-दमशौच-तपःप्रभृतयो गुणा अपि ग्रहीतुं शक्याः ।।
७. हस्ति-अश्व-रथ-पदातिलक्षणं चतुरङ्गबलम् ।
८. भ्रंशधातोः यङन्तं रूपं द्रष्टव्यम् , हैमं सूत्रम्-४।१।५०। अत्र 'व'स्थाने 'ब'वर्म: उचितः तथा 'स्य 'स्थाने भ्रंशधातोः 'श'सहितत्वेन 'श्य'वर्णः उचितः ।
पुनः पुनः भ्रंशसूचनाय अथवा अधिकभ्रंशसूचनाय इदं रूपं प्रयुक्तं ग्रन्थकृता ।
1 प्रस्थितस° डे। 2 °हत हृदय क। 3 नविष्ठ डे । 4 प्रसीदिता कल । 5 विचरितुं डे। 6 अत एता क। 7 नो यतिरिव डे। 8 'दलित' पदं पतितं डे आदर्श । 9 °क्षाभ्यामपि स कल। कल। 10 तथाहि डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org -