________________
उच्छ्वासः ]
मदनरेखा - आख्यायिका
नूनमस्याः कुचकलशविलासविभ्रमेणा मुवल्लभस्यापि कुम्भयोरजनि जनितानन्दः पुरन्दरकरास्फालनकेलिसमारम्भः । नूनमस्या मुष्टिप्रविष्टावलग्नसधर्ममध्यतया पञ्चाननस्य मृगेन्द्राभिनिवेशः । नूनमस्याः सुरेखलेखेनाभिनिवेशैकदेशगाम्भीर्यतस्तरङ्गिणीनां तीर्थव्यपदेशः । नूनमस्या विशालनितम्बबिम्बराजधानीविभुतया रतिपतिरनङ्गोऽपि सप्ताङ्गराज्यस्वामिनोऽपि किङ्करीयति । नूनमस्या ऊरुदण्डाखण्डाभिरामतया रेंम्भास्तम्भानामृद्धिवृद्धयादिषु पुरःसरत्वम् । नूनमस्या यथोक्तर्गुणसंवँजङ्घार्पितश्रीलवेन सुभटैरपि सन्निधीयते पृष्ठतस्तूणीरः । नूनमस्याश्चरणानुकरणसबलस्थलँकमलभीरुतया न त्यजन्ति जलदुर्ग पद्मानि ।
इत्याद्यनल्पविकल्पैश्रेणिनिः श्रेणिकया तस्य समारूढैश्चेतश्चन्द्रशालायां दुर्वारमारवीरः । तदनन्तरमेव निरस्तसमस्तविका रेणापि पलायितं सदाचारेण कुलकलङ्कपङ्कप्रक्षालनसज्जयाऽपि १. [ अभ्रमुवल्लभस्य - ऐरावणस्य । ]
अभ्रमुप्रियो हि पुरन्दरगजः - इन्द्रहस्ती, तस्य कुम्भौ अस्याः मदनरेखायाः कुचकलशविलासविभ्रमयुक्तौ अत एव तौ अभ्रमुप्रियकुम्भौ स्वस्वामिनः पुरन्दरस्य करास्फालन केलिसमारम्भमपि आनन्दजनकं मन्यते इति आशयः ।
२. मदनरेखायाः मध्यं मध्यभागः कटिप्रदेशः तत्समान अत एव तस्य मृगेन्द्रता |
३. तस्याः नाभिनिवेश: - नाभिप्रदेशः सुरेखलेख:- विशेषतो गम्भीरः, तन्नाभिप्रदेशकदेशस्य गाम्भीर्य तरङ्गिणीषु विद्यते अत एव तासां तरङ्गिणीनां तीर्थत्वम् ।
४५
कटिप्रदेशः मुष्टिप्रविष्टः - मुष्टि ग्राह्यः, पञ्चाननस्यापि
४. अस्याः विशालनितम्बबिम्बरूपा स्वीया राजधानी इति मन्यमानः अनङ्गोऽपि रतिपतिः सप्ताङ्गराज्यस्वामिनः नृपान् किङ्करीयति- किङ्करान् इच्छति अर्थात् ते सप्ताङ्गराज्यस्वामिनोऽपि अनङ्गस्य किङ्करा इति ।
Jain Education International
५. लोके हि शुभकर्मणि रम्भास्तम्भा आरोप्यन्ते, आरोप्यमाणास्ते ऋद्धिवृद्धयादिषु अग्रेसराः शकुनरूपाः गण्यन्ते । ते रम्भास्तम्भाः मदनरेखायाः उरूदण्डस्य अभिरामतां धृतवन्तः अत एव ते शुभकर्मणि ऋद्धिवृद्धयादिषु अग्रेसरा:- पुरस्सराः ।
६. अस्याः जङ्घाभ्यां स्वीयः श्रीलवः तूणीरस्य समर्पितः, अत एव सुभटाः तुणीरं पृष्ठतः संनिदधति । तूणीरो हि शराश्रयः - बाणभरणस्थानम् ।
७. स्थलकमलानि हि अस्याः चरणौ अनुकुर्वन्ति, अतः तानि सबलानि जातानि तेषां भयात् जलजानि-पद्मानि स्वरक्षणस्थानं जलदुर्ग - जलप्राकारं भयेनेव न त्यजन्ति ।
cc
८८
८. 'अधिरोहिण्यां निःश्रेणिः निर्विसर्गा-ऽविसर्गयुक् । " ( - शब्दरत्ना० कां० ४, श्लो० ५२ ) । अयं 'निःश्रेणि 'शब्दः महाभारतेऽपि प्रयुक्तः इति विशेषतः प्राचीनः । ९. चेतः - मनः एव चन्द्रशाला चेतश्चन्द्रशाला 'चन्द्रशाला शिरोगृहम् " ( - अभि० चिं० कां ० ४, श्लो० ६१ ) । 1 लेखसनाभिनाभिनि डे । 5 °ल्पश्रेणिकया डे । 6 'दश्चित्त च कल ।
2 घसङ्घा क ।
3 स्थलभी क । 4 दुर्गपडे ।
For Private & Personal Use Only
www.jainelibrary.org